Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 323
________________ . प्राचार्यभामहस्तु उक्तवान् यत्- 'न कान्तमपि निर्भूषं विभाति वनिताननम् ।' अर्थात् प्राभूषणरहितं सुन्दर्याः वदनं प्रियाय आकर्षकं न भवतीति । ध्वनिसिद्धान्तस्य प्रतिष्ठानन्तरं काव्येऽलंकारसत्ता अपरिहार्या न सजाता- आचार्यश्रीहेमचन्द्राः अलंकाराणां काव्ये शोभाजनकत्वेन कथितवन्त इति नात्र संदेहः । विश्वनाथोऽपि शब्दार्थास्थिरधर्मम् अलंकारमिति स्वीकृत्य काव्यशोभावर्धकम् रसोपकारकं मनुते शब्दार्थयोरस्थिरा ये धर्मा शोभातिशायिनः । रसादीनुपकुर्वन्तोऽलङ्कारास्तेऽङ्गादिवत् ॥ निष्कर्षतोऽलङ्कारविषये वयं वक्तुं शक्नुमो यत् भावोत्कर्षप्रदर्शकान्, वस्तूनां रूप-गुण-क्रियातिशयानुभवितु यदा कदा सहायिका युक्तिरलङ्कार इति । रोतिसम्प्रदायः || रीतितत्त्वस्य चर्चा भरतस्य नाट्यशास्त्रेऽपि विराजते किन्त्वस्य सम्प्रदायस्य प्रवर्तकः वामनाचार्य एव। तस्य समयोऽष्टम्शकम् अस्ति । संस्कृतसाहित्ये रीतिशब्दोऽनेकेषु अर्थेषु प्रयुक्तः । साहित्यरत्नमञ्जूषा-२२८

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360