Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 320
________________ महानुभावोऽलङ्कार-सम्प्रदायस्य प्रवर्तकोऽप्यस्ति । अन्येष्वाचार्येषु उद्भट दण्डि - रुद्रट प्रतिहारेन्दुराज जयदेवाः प्रमुखाः सन्ति । जैनकाव्यशास्त्रिदृष्ट्या तत्र स्वनाम - धन्यानां विद्वन्मूर्धन्यानां कलिकालसर्वज्ञानां श्रीहेमचन्द्राचार्याणां नामापि महत्त्वपूर्णां पदवीमावहति । - - भामह - दण्डि - रुद्रटोद्भटादिभिराचार्यैरलङ्कारस्य व्यापकमर्थं स्वीकृत्य काव्यस्यात्माऽलङ्कार, इति वचनम् कथयित्वा काव्यस्य सर्वस्वमलङ्कार इति स्वीकृतम् । एभिराचार्यैः श्रङ्गीभूतो रसः, भावः, रसाभासश्च क्रमशः रसवत् प्रेयस्वत्, ऊर्जस्वी, समाहितोऽलङ्कारः कथितः । एभिरालङ्कारिकैराचार्यैः गुणस्वरूपमप्यलङ्काररूपेण स्पष्टतस्तु नैव प्रोक्तस्तथापि दण्डिकथनानुसारेण प्रतीयते यत् - ते माधुर्यादि दसगुणान् साधारणालङ्कारान् विवक्षन्त इति । आलङ्कारिकाचार्या यद्यपि ध्वनिमलङ्कारशब्दैर्न क्वचिदपि व्यवह्नितवन्तस्तथापि रूपकोत्प्रेक्षा - प्रतिवस्तूपमापर्यायोक्ति-संकराद्यलङ्काराणां लक्षणैरुदाहरणैर्वा किमप्यस्मिन् विषये विशेषेण ध्वन्यते सूच्यते वेति विज्ञेयम् । आचार्यदण्डी नाट्यशास्त्रसम्बद्धान् विषयानपि अलङ्कार साहित्य - १५ साहित्यरत्नमञ्जूषा - २२५

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360