Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 318
________________ काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा । क्रोञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥ अभिधावादी भट्टनायकोऽपि रसस्याक्षुण्णं महत्त्वं स्वीकुर्वन्ति । व्यञ्जनावादिन प्रानन्दवर्धनाचार्याः, अभिनवगुप्तपादाश्च रसस्य महत्त्वमङ्गीकुर्वन्ति प्राचार्यमम्मटविश्वनाथ-जगन्नाथानाम, कलिकालसर्वज्ञाचार्यहेमचन्द्रसूरीश्वराणां विषये तु किं कथयामः । एते तु रसतत्त्वस्य ध्वनितत्त्वस्य च प्रतिष्ठापकाः समभवन्, एतेषां मतानुसारेण रसः काव्यस्य सर्वस्वमिति । रससम्प्रदायस्य पृष्ठभूमिमनोवैज्ञानिकी वर्तते । रससिद्धान्ते मानवहृदयस्य मूलप्रवृत्तीनां विस्तरेण विवेचनं, सहायकमनोभावानां संसृष्टिरपि समुपलभ्यते । रससम्प्रदायस्य प्रमुखाः प्राचार्याः ग्रन्थाश्च एवं समुल्लसन्ति प्राचार्यभरतः | नाट्यशास्त्रम् आनन्दवर्धनाचार्यः | ध्वन्यालोकः धनञ्जयः दशरूपकम् मम्मट: काव्यप्रकाशः विश्वनाथः | साहित्यदर्पणः जगन्नाथः | रसगंगाधरः साहित्यरत्नमञ्जूषा-२२३ .

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360