________________
काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा । क्रोञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥
अभिधावादी भट्टनायकोऽपि रसस्याक्षुण्णं महत्त्वं स्वीकुर्वन्ति । व्यञ्जनावादिन प्रानन्दवर्धनाचार्याः, अभिनवगुप्तपादाश्च रसस्य महत्त्वमङ्गीकुर्वन्ति प्राचार्यमम्मटविश्वनाथ-जगन्नाथानाम, कलिकालसर्वज्ञाचार्यहेमचन्द्रसूरीश्वराणां विषये तु किं कथयामः । एते तु रसतत्त्वस्य ध्वनितत्त्वस्य च प्रतिष्ठापकाः समभवन्, एतेषां मतानुसारेण रसः काव्यस्य सर्वस्वमिति ।
रससम्प्रदायस्य पृष्ठभूमिमनोवैज्ञानिकी वर्तते । रससिद्धान्ते मानवहृदयस्य मूलप्रवृत्तीनां विस्तरेण विवेचनं, सहायकमनोभावानां संसृष्टिरपि समुपलभ्यते । रससम्प्रदायस्य प्रमुखाः प्राचार्याः ग्रन्थाश्च एवं समुल्लसन्ति
प्राचार्यभरतः | नाट्यशास्त्रम् आनन्दवर्धनाचार्यः
| ध्वन्यालोकः धनञ्जयः दशरूपकम्
मम्मट: काव्यप्रकाशः विश्वनाथः | साहित्यदर्पणः जगन्नाथः | रसगंगाधरः
साहित्यरत्नमञ्जूषा-२२३ .