________________
इत्थं काव्य सर्वस्वमलङ्कारं स्वीकुर्वताऽपि तेन तस्य चरमारिणतिः रसस्वरूपे स्वीक्रियत इति नास्ति क्षति, श्राचार्यरुटोsपि अलङ्कारवादी किन्तु प्रयमेव रसमहत्त्वं स्वीकुर्वन् प्रतिपादयति यत् ' तस्मात् कर्त्तव्यं यत्नेन महीयसारसंयुक्तम्' काव्ये यत्नपूर्वकं रसप्रतिष्ठाया आग्रहमयं स्वीकरोत्येव श्रग्निपुराणकाराऽपि काव्ये चमत्कारस्य प्रधानतां स्वीकुर्वन्नपि रसमेव काव्यजीवनमिति स्फुटमङ्गीकरोति ।
" वाग्वैदग्ध्य प्रधानेऽपि रस एवात्र जीवितम् ।"
प्राचार्य वामनः रीति सम्प्रदायस्य प्रवर्तकोऽस्ति तथापि स गुरणानां वर्णने रसमावश्यकतत्त्वमाभरणन्तिं । कान्तिगुणान्तरेऽसौ रसस्य समावेशमपि चिकीर्षति 'दीप्तिरसत्वं कान्तिः ।' वामनस्य मतानुसारेण रसो रीतेरङ्गमात्रम् । रसस्य दीप्तिः रीतेः शोभायां सहयोगाय प्रचक्ष्यते । इयमेव रसस्य सार्थकता अर्थात् रसोऽङ्गो रीतिरङ्गीति ।
एतद्विवेचनेन स्फुटतरमायाति यद्रीतेः अलङ्कारस्याचार्यै: रसस्यास्तित्वं स्वीक्रियते । ध्वनिसम्प्रदायोऽपि रसस्य प्राधान्यमङ्गीकरोति, सम्प्रदायेऽस्मिन् 'रसध्वनिः' इति कृत्वा सर्वश्रेष्ठा ध्वनिः स्वीक्रियते । काव्यस्यात्मा रस इत्यपि स्वीक्रियते -
साहित्यरत्नमञ्जुषा - २२२