Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 317
________________ इत्थं काव्य सर्वस्वमलङ्कारं स्वीकुर्वताऽपि तेन तस्य चरमारिणतिः रसस्वरूपे स्वीक्रियत इति नास्ति क्षति, श्राचार्यरुटोsपि अलङ्कारवादी किन्तु प्रयमेव रसमहत्त्वं स्वीकुर्वन् प्रतिपादयति यत् ' तस्मात् कर्त्तव्यं यत्नेन महीयसारसंयुक्तम्' काव्ये यत्नपूर्वकं रसप्रतिष्ठाया आग्रहमयं स्वीकरोत्येव श्रग्निपुराणकाराऽपि काव्ये चमत्कारस्य प्रधानतां स्वीकुर्वन्नपि रसमेव काव्यजीवनमिति स्फुटमङ्गीकरोति । " वाग्वैदग्ध्य प्रधानेऽपि रस एवात्र जीवितम् ।" प्राचार्य वामनः रीति सम्प्रदायस्य प्रवर्तकोऽस्ति तथापि स गुरणानां वर्णने रसमावश्यकतत्त्वमाभरणन्तिं । कान्तिगुणान्तरेऽसौ रसस्य समावेशमपि चिकीर्षति 'दीप्तिरसत्वं कान्तिः ।' वामनस्य मतानुसारेण रसो रीतेरङ्गमात्रम् । रसस्य दीप्तिः रीतेः शोभायां सहयोगाय प्रचक्ष्यते । इयमेव रसस्य सार्थकता अर्थात् रसोऽङ्गो रीतिरङ्गीति । एतद्विवेचनेन स्फुटतरमायाति यद्रीतेः अलङ्कारस्याचार्यै: रसस्यास्तित्वं स्वीक्रियते । ध्वनिसम्प्रदायोऽपि रसस्य प्राधान्यमङ्गीकरोति, सम्प्रदायेऽस्मिन् 'रसध्वनिः' इति कृत्वा सर्वश्रेष्ठा ध्वनिः स्वीक्रियते । काव्यस्यात्मा रस इत्यपि स्वीक्रियते - साहित्यरत्नमञ्जुषा - २२२

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360