Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 316
________________ अर्थात् 'रसवदलङ्कारस्तत्र भवति यत्र शृंगारादिरसा : स्पष्टरूपेण दर्शिता भवेयुः । एवं सत्यप्यस्माभिः कथयितुं शक्यते यद् भामहो रसमहत्तां स्वीकरोतीति । यतो ह्ययं महाकाव्याय समस्तरसानां विधानमनिवार्यरूपेण स्वीकरोति युक्त लोकस्वभावेन रसैश्च सकलैः पृथक् । ( काव्यालंकार १ / १२१ ) प्राचार्यदण्डी अलङ्कारवादी सन्नपि भामह इव रसेऽनुदारो न दृश्यते तथापि तस्य दृष्टिः भामहेन साम्यं भजति । काव्यादर्शस्य द्वितीये आदर्श रसविवेचनं प्राप्यते तत्र दण्डी मधुरगुणानेव रसस्वरूपेगाङ्गीकरोति । तस्य मतमस्ति यत् 'रसवद्वाक्यमेव मधुरं भवति, अतएव रस एव माधुर्यम् न पृथक्-पृथक् । यया शब्दार्थजन्याह्लादकतया सहृदयगणाः मत्ताः भवेयुः, स एव रसः । उक्तञ्च मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितः । येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥ ( काव्यादर्श: १ / ५१ ) दण्डिनो मतानुसारेण प्रत्येकोऽप्यलङ्कारोऽर्थे रससेचनक्षमतां विभर्ति - "कामं सर्वोऽप्यलङ्कारो रसमर्थे निषिञ्चति" साहित्यरत्नमञ्जूषा - २२१

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360