Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 289
________________ अत्र हि यथा तथा शब्दाभ्यां ऐक्यारोपात् निदर्शना अलङ्कारः। यथा अरण्यरुदितं कृतं शवशरीरमुवतितं , स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामितं बधिरकर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥१॥ अत्रापि वै निदर्शनाख्योऽलङ्कारो वर्त्तते । १४- व्यतिरेकालङ्कारः- "उपमानादुपमेयस्याधिक्यं न्यूनता, वा यत्र वर्ण्यते तत्र व्यतिरेकाऽलङ्कारः। वैशेष्यमुपमेयस्योपमानान्न्यूनताथ च । चेद् उपमानोपमेययोः प्रकृताऽप्रकृतयोः वैलक्षण्यं स्यात् तदा व्यतिरेकः अलङ्कारो भवति । व्यतिरेकशब्दो भावघजन्तः । उपमानापेक्षया उपमेयस्य आधिक्ये व्यतिरेकाख्योऽलङ्कारो भवति । व्युत्पत्त्या व्यतिरिच्यते । उपमानवैलक्षण्येनोपलभ्यते । उपमेयमनेन इति व्यतिरेक पद व्युत्पत्तिरवधेया। "अचलेव श्रमणास्तुङ्गाः, किन्तु मनसि कोमलाः।" यथा श्रमणा अचलेव शैला इव तुङ्गाः उन्नताः, किन्तु मनसि चेतसि कोमला श्रमणाः उत्कर्षप्राप्ताः ऊर्ध्वं गताः किन्तु प्रकृत्या कोमलाः सुकुमाराः सन्ति । साहित्यरत्नमञ्जूषा-१९४

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360