________________
अत्र हि यथा तथा शब्दाभ्यां ऐक्यारोपात् निदर्शना अलङ्कारः। यथा
अरण्यरुदितं कृतं शवशरीरमुवतितं , स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामितं बधिरकर्णजापः कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥१॥ अत्रापि वै निदर्शनाख्योऽलङ्कारो वर्त्तते ।
१४- व्यतिरेकालङ्कारः- "उपमानादुपमेयस्याधिक्यं न्यूनता, वा यत्र वर्ण्यते तत्र व्यतिरेकाऽलङ्कारः।
वैशेष्यमुपमेयस्योपमानान्न्यूनताथ च । चेद् उपमानोपमेययोः प्रकृताऽप्रकृतयोः वैलक्षण्यं स्यात् तदा व्यतिरेकः अलङ्कारो भवति । व्यतिरेकशब्दो भावघजन्तः ।
उपमानापेक्षया उपमेयस्य आधिक्ये व्यतिरेकाख्योऽलङ्कारो भवति । व्युत्पत्त्या व्यतिरिच्यते । उपमानवैलक्षण्येनोपलभ्यते । उपमेयमनेन इति व्यतिरेक पद व्युत्पत्तिरवधेया। "अचलेव श्रमणास्तुङ्गाः, किन्तु मनसि कोमलाः।"
यथा श्रमणा अचलेव शैला इव तुङ्गाः उन्नताः, किन्तु मनसि चेतसि कोमला श्रमणाः उत्कर्षप्राप्ताः ऊर्ध्वं गताः किन्तु प्रकृत्या कोमलाः सुकुमाराः सन्ति ।
साहित्यरत्नमञ्जूषा-१९४