________________
अत्र शैल - श्रमरणयोः प्रन्नत्य - साम्येऽपि सज्जनानां कोमलत्वेन प्राधिक्यं प्रतिपादितम् । अतः व्यतिरेकालङ्कारः ।
१५ - विनोक्त्यलङ्कारः - "यत्र येन विना वर्णनीयवस्तुनि न्यूनता, प्राधिक्यं वा स्यात्, तत्र- विनोक्त्यलङ्कारः । "
यथा
"विद्या हृद्याऽपि सावद्या, विना विनयसम्पदम् । विना खर्लोविभात्येषा, राजेन्द्र ! भवतः सभा ॥
अत्र विनोक्त्यलङ्कारो वर्त्तते ।
१६ - "स्वभावतः एकार्थके वाक्ये अनेकार्थता श्लेषालङ्कारः।”
' सकृदुच्चरितः शब्दः सकृदर्थं गमयति' इति नियमेन काव्ये स्वरभेदादानात् यावन्तोऽर्थास्तावन्त एव शब्दा एक प्रयत्नेनोच्चार्यन्त इति नये युगपन्ना शब्दोच्चारणेऽपि तेषां भेदोपलम्भो न भवति । तत्रापि प्रकरणादिनियमाभावादनेकार्थानां अभिधयैव बोधः । प्रकरणादिनियमसत्वे तु एकस्याभिधया परस्य व्यञ्जनयेति मतमाश्रित्येदं लक्षणम् । एवं चैकप्रयत्नोच्चार्यत्वेन लुप्तभेदानां वर्णादीनां मेलकः श्लेषः ।
साहित्यरत्नमञ्जूषा - १९५