SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ तद् विशिष्टै: पदैः अनेकार्थानां अभिधया बोधने सति श्लेषो भवति । वौं च प्रत्ययौ च लिङ्ग चेतिविग्रहः । स श्लेषालङ्कारः। स्वभावतः एकार्थके वाक्ये अनेकार्थता श्लेषः । बह्वर्थसंश्रयश्लेषः वर्णप्रत्ययलिङ्गषु । "सर्वदा ऋषभः पायात् यो हि गां स्ववशीकरोत् ।" अत्र सदा श्रीऋषभजिनेश्वरः पायात् यो हि निश्चयेन गां इन्द्रियं वाणीं वा स्ववशे अकरोत् स्वाधीनं कृतवान् । अन्यच्च-द्विविधस्याप्यर्थस्याऽत्र प्रतीतिः अभिधाख्यया वृत्यैव भवति । ऋषभः बलीवर्दः पायात् यो गां धेनु स्ववशीकरोत् । यथा"प्रवर्तयन् क्रियाः साध्वीर्मालिन्यं हरितां हरन् । महसा भूयसा दीप्तौ विराजति विभाकरः ॥१॥" अत्र श्लेषालङ्कारः प्रवर्त्तते । १७- अप्रस्तुतप्रशंसालङ्कारः - “यत्र अप्रस्तुतवर्णनेन प्रस्तुतं ज्ञायते, तत्र अप्रस्तुतप्रशंसाऽलङ्कारः।" साहित्यरत्नमञ्जूषा--१९६
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy