SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ यथा "पादाहतं यदुत्थाय मूर्धानमधिरोहति । स्वस्था देवापमानेऽपि देहिनस्तद् वरं रजः ॥” अत्र अप्रस्तुतप्रशंसाऽलङ्कारो वर्त्तते । १८ - व्याजस्तुतिरलङ्कारः - "यत्र निन्दा -स्तुतिभ्यां स्तुति - निन्दे गम्येते तत्र व्याजस्तुतिरलङ्कारः । " यथा "सर्वदा सर्वदोऽसीति, मिथ्या त्वं स्तूयसे बुधैः । नारयो लेभिरे पृष्ठं, न वक्षः परयोषितः ॥ " अत्र निन्दया स्तुतिः, तस्माद् व्याजस्तुतिरल कारः प्रवर्त्तते । यथाऽथवा "कि वृत्तान्तैः परगृहगतेः किन्तु नाहं समर्थ - स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपरिणषु तथा चत्वरे पानगोष्ठ्यामुन्मत्तेव भ्रमति भवतो वल्लभा देव ! कीत्तिः ॥ " अत्रापि वै निन्दया स्तुतिः, तस्माद् व्याजस्तुतिरलङ्कारो वर्त्तते । साहित्यरत्नमञ्जूषा - १९७
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy