SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ १३- निदर्शनाऽलङ्कारः- “यत्र सदृशयोः वाक्यार्थयोः ऐक्यारोपस्तत्र-निदर्शनाख्योऽलङ्कारः ।" 'वाक्यार्थयोः बिम्बबिम्बं बोधयेत् सा निदर्शना ।' 'निश्चित्यदर्शनं सादृश्याविष्करणं निदर्शना ।' 'अनुपपद्यमानो वाक्यार्थयोः सम्बन्धो यत्रौपम्यबोधकः सन् पर्यवस्यति तत्र निदर्शना ।' साधारणधर्मानुपन्यासाद् वाक्यार्थयोः सापेक्षत्वाच्च न दृष्टान्तेऽन्तर्भावः । उदाहरणम्-- "या दातुः सौम्यता सेयं सुधांशोरकलङ्कता।" . [श्री कुवलयानन्दे प्रोक्तमिदम्] या दातुर्वदान्यस्य सौम्यता सुधांशोः चन्द्रस्याकलङ्कता, कलङ्कशून्यता । अत्र दातृपुरुषसौम्यत्वस्योपमेयवाक्यार्थस्य चन्द्रस्याऽकलङ्कत्वस्योपमानवाक्यस्य च यत् तत् शब्दाभ्यां एक्यारोपात् निदर्शना अलङ्कारः। इयं निदर्शना सदर्था असदा इति द्विधा । अन्यच्च "यथा जिनेन्द्र प्रतिभाति शोभा, तथा समृद्धिः परिपूजकानाम् ।" साहित्य-१३ साहित्यरत्नमञ्जूषा-१९३
SR No.023197
Book TitleSahitya Ratna Manjusha
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1989
Total Pages360
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy