________________
सममेव समाक्रान्तं, द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यं, मण्डलं च महीक्षिताम् ॥ १॥ अत्र अतिशयोक्तिरलङ्कारः वर्तते ।
१२- दृष्टान्तालङ्कारः - “यत्रोपमानोपमेययोभिन्नौ धमौ बिम्बप्रतिबिम्बभावेन वरिणतौ तत्र दृष्टान्तालङ्कारः।" ___ यत्र बिम्ब-प्रतिबिम्बत्वं दृष्टान्तस्तत्र वर्ण्यते । चेद् यदि वाक्यार्थयो बिम्बश्च प्रतिबिम्बश्वे ति बिम्ब-प्रतिबिम्बौ तयोर्भावो बिम्बप्रतिबिम्बत्वम् । "बी गति व्याप्तिपूजनकान्त्यसनखादनेषु' इति धातोः "उत्वादयश्च (४।६५) इत्यौणादिकात् सूत्राद् वन्न मागम ह्रस्वत्वे बिम्बशब्दसिद्धिः। यथा दर्पणे बिम्बवत् प्रतिबिम्बः दृश्यते तथैव एकवाक्यवदपरवाक्यं यत्र तद् तदा दृष्टान्तोऽलङ्कारो भवति । दृष्टोऽन्तो निश्चयः यस्मिन् स दृष्टान्तः । उपमानोपमेयनिष्ठ - वाक्यधर्मयोःबिम्बप्रतिबिम्बभाव यत्र तत्र दृष्टान्तः ।
वस्तुतो भिन्नयोरपि उपमानोपमेययोः परस्परसादृश्याद्भिन्नयोः पृथगुपादानं बिम्बप्रतिबिम्बभावः । “दृष्टा मयाऽहत्प्रतिमा, तन्मृष्टा दैवदुष्कृतिः ।” यथा"अविदितगुणाऽपि सत्कविभरिणतिः ,
कर्णेषु वमति मध्धारां । अनधिगतपरिमलाऽपि हि ,
हरति दृशं मालतीमाला ॥ १ ॥" साहित्यरत्नमञ्जूषा-१९२