________________
ननु ध्वनिविशिष्टार्थज्ञानेनापि चमत्कारोदयात्ध्वनिविशिष्टार्थज्ञाने चमत्कृतिजनकता तदवच्छेदकतावच्छेदकत्वं च ध्वनौ वर्तत, इत्येतस्यापि अलङ्कारत्वम् । एतेन ध्वनौ व्यङ्गयार्थस्य सत्वान्नालङ्कारत्वम् । __ एवं सत्यपि रसवत्प्रेयङ्गर्जस्विसमाहितेषु चतुर्वलङ्कारेषु व्यङ्गयार्थसद्भावान्नालङ्कारत्वं स्याद् तेन लक्षणेन । मन्यन्ते च तत्रालङ्कारत्वं सर्वैरिति चेत् तदा रसवदादिभिन्नव्यङ्गयभिन्नत्वे सतीति विशेषण विशिष्ट-सत्पन्नविशेषणोपादनं कर्त्तव्यम्, तेन उक्तलक्षणे न कोऽपि दोषः ।
अथ शब्दालङ्काराः १ अनुप्रासः- 'प्रकर्षश्चाऽव्यवधानेन न्यासः स एव च सहृदयहृदयानुरञ्जकः' । साहित्यदर्पणे-अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत् । काव्यप्रकाशे- 'वर्णसाम्यमनुप्रासः'। सोऽयं अनुप्रासः वर्णगतः शब्दगतश्चेति द्विविधः । निरर्थकवर्णानुप्रासः प्रथमः। द्वितीयस्तु सार्थकः वर्णानुप्रासः । अनुप्रासः पञ्चविध:
(क) छेकानुप्रासः- तत्र प्रथमो छेकानुप्रासः छेकवृत्तित्वेन द्विविधः । प्रथमः यत्र स्वराः व्यञ्जनानि च तेषां सन्दोहः साम्यं स्तोमो वा तस्य व्यूहावृत्तिर्यस्यां सा । यद्वा
साहित्यरत्नमञ्जूषा-१७५ .