________________
"छेकास्त्रिषु विदग्धेषु गृहासक्तमृगाण्डजे"। इति चवर्गादौ रभसकोशेन छेका आलस्थाः परीक्षणस्तेषां अनुप्रासेन द्विर्भाषितेन भासुराः । एषां पक्षिणां द्विर्भाषितं भवतीति व्यवहारसादृश्येन छेकानुप्रास संज्ञा । अथवा स्वरस्तोमानां व्यञ्जन्-स्तोमानां उभयेषां च यत्र सकृत् साम्यं तत्र छेकानुप्रासः । ___ अनुप्रासे स्वरवैपरीत्येऽपि शब्दस्य साम्यं भवति । यत्र वर्णानामेकवारमावृत्तिः तत्र छेकानुप्रासः । अत एव काव्यप्रकाशे "सोऽनेकस्य सकृतपूर्वः" अनेकस्य व्यञ्जनस्य सकृत् साम्यं छेकानुप्रास इत्युक्तम् । __ वृत्त्यनुप्रासे तु एकस्यापि व्यञ्जनस्य असकृद् आवृत्तिर्भवति । साहित्यदर्पणे तु "छेको व्यञ्जनसंघस्य सकृत् साम्यमनेकधा" इति छेकानुप्रासलक्षणमुक्तम् । छेकानुप्रासस्य लक्षणं वक्ष्यतेऽधुना
छेको व्यञ्जनसंघस्य सकृत् साम्यमनेकधा ॥सा.द.।।
यथा
निरानन्दः कौन्दे मधुनि विधुरो बालमुकुले , न साले सालम्बो लवमपि लवङ्ग न रमते । प्रियङ्गौ नासङ्ग रचयति न चूते विटमति , स्मरं लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥
साहित्यरत्नमञ्जूषा-१७६