________________
(ख)वृत्त्यनुप्रासः- रसानुगुणा वर्णरचनावृत्तिःवृत्त्यनुप्रासः । "वृत्त्यनुप्रासवचनं अमन्दानन्दमन्दिरम्" 'एकस्याप्यसकृत्परः' काव्यप्रकाशे वरिणतः । असकृदनेकवारमावर्त्तनं वृत्त्यनुप्रासः । आवृत्तवर्णेन सम्पूरितं वचनं वृत्त्यनुप्रासे भवति । वृत्तम् अर्थात् आदितोऽवसानपर्यन्तं वर्त्तनम् । तदस्यास्तीति वृत्ती तस्यानुप्रासः सोऽस्यामस्तीति वृत्त्यनुप्रासः । संक्षेपतः यत्र वर्णानामनेकवारमावृत्तिः तत्र वृत्त्यनुप्रासः । यथा(१)उत्कूजन्तु वटे-वटे बतबकाः काकाः वराका अपि ,
क्रां कुर्वन्तु सदा निनाद - पटवस्ते पिप्पले-पिप्पले । सोऽन्यः कोऽपि रसालपल्लवनवग्रासोल्लसत्पाटवः , क्रीडत् कोकिलकण्ठकूजनकला-लीलाविलासक्रमः ॥
(२) अमन्दानन्दसन्दोहस्वच्छन्दास्पदमन्दिरम् ।
(ग) श्रुत्यनुप्रासः- यत्र समानोच्चारणस्थानानां वर्णानां प्रयोगः विधीयते तत्र श्रुत्यनुप्रासः भवति । एकैव स्थानोच्चारिताः शब्दाः श्रवणमधुराः भवन्ति अतः यत्र कण्ठ- तालव्य - मूर्धन्य- दन्त्यौष्ठ - नासिका स्थानानां वर्णानां आवृत्तिर्जायते तत्र श्रुत्यनुप्रासः भवति । यथा
जयतु जिनेश्वर जय, जय ‘सुशील' सन्तापहर । (घ) अन्त्यानुप्रासः- यत्र यथासम्भवमनुस्वारविसर्ग
साहित्य-१२
साहित्यरत्नमञ्जूषा-१७७ ।