Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 179
________________ षष्ठोध्यायः । १७५ - गितया महतामपि श्लाघ्या. ये किं, ये अत्यजन जरत्तृणमिव त्यक्तवन्तः । किं तत् , राज्यं । किं विशिष्टं, तादृश पूजार्थाश्वर्यवीर्यपरिजनकामभोगादिभिभुवनत्रया तिशायि । कम्मै, भेदज्ञानाय देहात्मव्यतिरेकबोधार्थ । इदानीमात्मदृष्टान्तेन विषयाभिलाषपरतंत्रतया दोषभू यष्ट गार्हस्थ्य जानतोऽपि त्यक्तुमशक्तांतिरस्कुर्वन्नाह-धिगित्यादि । धिग् निन्दामीत्यर्थ. । कान्, मादृशः अहमिव दृश्यन्ते विषयाशावशवर्तितयोपलभ्यन्त इति माशः । मया सदृशानाविर्भूततत्त्वज्ञानत्वेऽपि विषयोपभोगपरित्यागासमर्थान्। किंविशिष्टान्, यतः कलत्रेच्छेत्यादि । कलत्रम्य भाया इच्छा मनोरथः छन्द इति यावत् कलत्रेच्छा सैव तन्त्रं प्रधानं यत्र तत्कलत्रेच्छातन्त्रं अथवा कलत्रे इच्छा अभिलाषः कलत्रेच्छा तस्यां तन्त्रमायत्त कलत्रेच्छातन्त्रं तदधीनवृत्ति गृहस्थस्य नित्यनैमित्तिकानुष्ठानस्थस्य द्वितीयाश्रमिणो भावः कर्म वा गार्हस्थ्य । कलंत्रेच्छा. तन्त्रं च तद्गार्हस्थ्यं च कलत्रेच्छातन्त्रगार्हस्थ्यं तेन दुःस्थिता दुरवस्था विविधदुराधिबाधाकुलितास्तान् । हेतुपरत्वेनायं निर्देशः ॥ ३३ ॥ स्वयमभिलाष्यमाणाया उपशनश्रियः स्त्रियाश्चात्माकर्षणविषये बलाबलं चिन्तयति इतः शमश्रीः स्त्री चेतः कर्षतो मां जयेन का। आ ज्ञातमुत्तरवात्र जेत्री या मोहराट्चमूः ।। ३४ । टीका-कर्षतः स्वस्याभिमुखं नयतो द्वे।कं, मां अतीन्द्रियैन्द्रियकसुखविशेपझं । तत्र तावत् कर्षति । काऽसौ, शमश्रीः प्रशमसुखसम्पत् । कं, मां । च, इतः अस्मिन्नेकस्मिन्पक्षे । तथा कर्षति स्त्री मां । क्व, इतोऽन्यस्मिन्पक्षे नुर्वितर्के । अनयोः का कतरा जयेत् मदाकर्षणे बलवती भवेत् । संशयोऽत्र में । अथवा आ स्मृतमाप्तोपदेशबलादनुभूतमेतयोर्बलाबलम् । सम्प्रत्यपि ज्ञानं निश्चितं । यदि वा आ संतापप्रकोपयोाख्येयः । आद्यपक्षे भविप्यति । कासो, अत्र एतयोर्मध्ये उत्तरैव स्त्री, न शमश्रीः । किंविशिष्टा,

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260