Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 237
________________ अष्टमोध्यायः । २३३ चतुर्विधाहारसंन्यासे । कस्मात्, खरपानक्रमत्यागात् खरपानस्य शुद्धोदकमात्रोपयोगस्य क्रमेण शनैः शनैस्त्यागः प्रत्याख्यानं तस्मात् । अत्रायं विधिरार्याद्वयेन-"त्यक्ष्यति सर्वाहारं । यावज्जीवं निरम्बरस्त्रिविधम् । निर्यापकसरिपरः संघाय निवेदयेदेवम् ॥१॥ क्षपयति यः क्षपकोसौ पिण्डं तस्येति संयमधनम्य । दर्शयितव्यं नीत्वा संघावसथेषु सर्वेषु " ॥ ६३।६४ ॥ ___ एवमतिशयेन परिषहबाधाक्षमं प्रति चतुर्विगहारप्रत्याख्यानमुपदिश्येदानीमतथाभूतस्य क्षपकम्य पानीयमात्र विकल्पनपूर्वकं त्रिविधप्रत्याख्यानमुपदिशश्चतुर्विधपत्याख्यानावसरनिरूपणार्थमाह व्याध्याधपेक्षयाम्भो वा समाध्यर्थ विकल्पयेत् । भृशं शक्तिक्षये जह्यात्तदप्यासन्नमृत्युकः ।। ६५ ॥ टीका-या अथवा विकल्पयेत् गुरुनियोगेन पेयतया प्रतिजानीते क्षपकः। किं तद् , अम्भ: पानीयं। किमर्थ, समाध्यर्थ । कया, व्याध्याद्यपेक्षया यदि पैत्तिको व्याधिर्वा ग्रीष्मादिः कालो वा मरुस्थलादिदेशो वा पैतिकी प्रकृ. तिर्वा अन्यदप्येवंविधं तृष्णापरिषहोद्रेकासहनकारण वा भवेत् तदा गुर्वनुज्ञया पानीयमुपयोक्ष्येहमिति प्रत्याख्यानं प्रतिपद्यतेत्यर्थः । भृशमत्यर्थ शक्तिक्षये बलनाशे पुनरासन्नमृत्युकः प्रत्यासन्नमरणः क्षपकस्तदप्यम्भोपि जगात् प्रत्याख्यायात् ॥ ६५ ॥ तत्कालोचितं क्षमकोपकारि संघस्यावश्यकरणीयमाह तदाखिलो वर्णिमुखग्राहितक्षमणो गणः ।। तस्याविनसमाधानसिद्धयै तद्यात्तनूत्सृतिम् ।। ६६ ॥ टीका-तदा तस्मिन्काले तद्यात्कुर्यात् । कोसौ, अखिलः सवों गणः संघः । का, तनूत्सृति कायोत्सर्ग । कस्यै, अविघ्नसमाधानसिद्धयै । कस्य. तस्य प्रत्याख्यातचतुर्विधभक्तस्य क्षपकम्य, क्षपकस्योपसर्गा मा भूवन सिद्धयतु चाराधनेत्येवमर्थ । किविशिष्टः सन, वर्णिमुखग्राहितक्षमणः वर्णिनो

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260