Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 253
________________ अष्टमोध्यायः । २१९ विक्लवीकरिष्यसे त्वं । कैः कर्तृभिः, भरिभवक्लेशः प्रचुरसंसारदुःखैः । उक्तंच 'विराद्धे मरणे देव दुर्गतिर्दूरबोदिता । अनन्तश्चापि संसारः पुनरप्यागमिष्यति । ॥ १०६ ॥ श्रद्धा स्वात्मैव शुद्धः प्रमदवपुरुपादेय इत्याजसी दृक् । तस्यैव स्वानुभूत्या पृथगनुभवनं विग्रहादेश्व संवित् ॥ सत्रैवात्यन्ततृप्त्या मनसि लयमितेऽवस्थितिः स्वस्य चर्या । स्वात्मानं भेदरत्नत्रयपरपरमं तन्मयं विद्धि शुद्धम् ॥१०७॥ टीका- किं च उपदिश्यते सद्गुरुभिः। कासौ, दृक् दृष्टिः । किंविशिष्टा, आंजसी पारमार्थिकी । किं, श्रद्धा अभिनिवेशः । कथं, भवति । कोऽसौ, स्वात्मैव न परात्मा । किविशिष्टः, शुद्धो द्रव्यभावकमरहितः । पुनः किंविशिष्टः, प्रमदवपुरानन्दरूपः । किंविशिष्टो भवति, उपादेयो मुमुक्षूणामुपेयः । इत्येवंरूपा श्रद्धैव निश्चयसम्यक्त्वमाख्यायते । तथा संविदांजसी निश्चयज्ञानं सद्गुरुभिरुपदिश्यते । किं, अनुभवनमनुभूतिः । कस्य, तस्यैव शुद्धप्रमदवपुम्त्वेनोपादीयमानस्य स्वात्मन एव । कथं, पृथग भेदेन ! कस्माद्, विग्रहादेः कायवाङ्मनस्त्रयात् । कया, स्वानुभूत्त्या स्वसवित्त्या । तथा सद्गुरुभिराजसी चर्या निश्चयचारित्रं चोपदिश्यते । किं, अवस्थितिरवस्थानं । कस्य, स्वस्यात्मनः । क, तत्रैव तथाप्रतीयमानेऽनुभयमाने स्वात्मन्येव । क सति, मनस्यन्तःकरणे। किंविशिष्टे, इते गते प्राप्ते । कं, लयं तन्मयीभावं । क, तत्रैव । कया, अत्यन्ततृप्त्या अतिमात्रवैतृष्ण्येन । उक्तं च-दर्शनमात्मविनिश्चितिरात्मपरिज्ञानमिष्यते बोधः । स्थितिरात्मनि चारित्रं कुत एतेभ्यो भवति बन्धः ॥ २ ॥ तन्मयं तेन निश्चयरत्नत्रयेण निर्वतं तदात्मकं स्वात्मानं, परम शुद्धं परमप्रकर्षशुद्धि प्राप्त । अहो भेदरत्नत्रयपर व्यवहाररत्नत्रयप्रधान आराधकोत्तम विद्धि जानीहि संवेदय ॥ १०७ ॥

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260