Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 252
________________ २१८ सागारधर्मः सुरकतोपसर्गसहने निदर्शनमिदम् - तीनदुःखैरतिकुद्धभतारूवरितस्ततः । भग्नेषु मुनिषु प्राणानौज्मद्विघुवरः स्वयुक ॥१०४॥ टीका-ओमत्त्यजति स्म।.कोऽसौ, विद्युञ्चरः । कान, प्राणान् । किविशिष्टः सन् . स्वयुक् आत्मानं समादधानः । केषु सत्सु, मुनिषु तपोधनेषु । किंविशिष्टेषु, भमेषु प्रपलायितेषु । क, इतस्ततः यत्र तत्र । कैः, तीबदुःखैः नितान्तासघबाधाभिः । किविशिष्टः, अतिक्रुद्धभूतारब्धैः अत्यन्तकुपिताधमन्यन्तरोपक्रान्तः ॥ १०४ ॥ ____अचेन्नृतिर्यग्देवोपसृष्टासंक्लिष्टमानसाः। सुसत्त्वा बहवोऽन्येऽपि किल स्वार्थमसाधयन् ॥ १०५ ।। टीका-किल भागमे घेवं श्रयते । सुसत्त्वा महासात्त्विका अन्येऽपि शिवभूत्यादिभ्योऽपरेपि, बहवो भूयांसः, स्वार्थ पुरुषार्थ प्रकरणान्मोक्षलक्षणमसाधयन् निष्पादितवन्तः । कथम्भूता भूत्वा, अचेदित्यादि। अचेतोऽचेतनाः पृथिव्यादयः, नरो मनुष्याः, तिर्यको तैर्यग्योना, देवाः सुराः अचेतश्च नरश्च तिर्यञ्चश्व देवाश्च अचेन्नृतिर्यग्देवास्तैरुपसृष्टाः कृतोपसर्गास्ते च ते असंक्लिष्टमानसाश्च रागद्वेषमोहानाविष्टचेतसः शुद्धस्त्वात्मध्यानपरिणताः अचेन्नृतिर्यग्देवोपसृष्टासंक्लिष्टमानसाः ॥ १०५ ॥ तत् त्वमप्यङ्ग सङ्गत्य निःसङ्गेन निजात्मना। त्यजाङ्गमन्यथा भूरिभवक्लेशैर्लपिष्यसे ॥ १०६ ॥ टीका-अंग अहो महात्मन् । यत एवं महानुभावैर्मुमुक्षुभिर्भगवच्छिवभूतिप्रभृतिभिरत्यन्तविनिपातोपनिपातेऽपि स्वार्थः साधितस्तत्तस्मात्त्वमपि भवानपि त्यज मुश्च। किं तत्, अझं देहं । किं कृत्वा, सनत्य संयुज्य। केन सह, निजात्मना आत्मीयेन नित्येन वा चिद्रूपेण । किंविशिष्टेन, निःसङ्गन कर्मविविक्तेन । अन्यथा अन्येन सक्लेशावेशप्रकारेण अनत्यागे ग्लपिष्यसे

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260