Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 259
________________ प्रशस्तिः । २५५ क्यरसं जिनागमनिर्यासभूतं निबंधरुचिरं । स्वयंकृतज्ञानदी पिकाख्यपंजिकया रमणीयं धर्मामृतं धर्मामृताख्यं न्यदधात् स्थापयति स्म ॥ ११ ॥ आयुर्वेदविदामिष्टां व्यक्तं वाग्भटसंहिताम् । अष्टाङ्गहृदयोद्योतं निवन्धमसृजच्च यः ॥ १२ ।। व्यक्तुं प्रकटीकर्तु । वाग्भटसंहितां अष्टांगहृदयनाम्नीं ॥ १२ ॥ यो मूलाराधनेष्टोपदेशादिषु निबन्धनम् ।। व्यधत्तामरकोशे च क्रियाकलापमुज्जगौ ॥ १३ ॥ आदिः आराधनासारभूपालचतुर्विशतिस्तवनाद्यर्थः । उज्जगो उत्कृष्ट कृतवान् ॥ १३ ॥ रौद्रटस्य व्यधात्काव्यालङ्कारस्य निबन्धनम् । सहस्त्रनामस्तवन सनिबन्धं च योहताम् ।। १४ ॥ रौद्रटस्य रुद्रटाचार्यकृतस्य । अहेतां अनंतजिनानां ॥१४॥ सनिबन्धं यश्च जिनयज्ञकल्पमरीरचत् । त्रिषष्टिस्मृतिशास्त्रं यो निबन्धालंकृतं व्यधात् ॥ १५ ॥ सनिबन्धं स्वयंकृतेन जिनयज्ञकल्पदीपकाख्येन निबन्धेन सहित जिनयज्ञकल्पं जिनयज्ञकल्पाख्यं जिनप्रतिष्ठाशास्त्रं अरीरचत् निर्मितवान् । त्रिषष्टिस्मृतिशास्र आर्षमहापुराणशास्त्रोद्धतत्रिषष्टिशलाकापुरुषवृत्तगोचरं त्रिषष्टिस्मृतिसंज्ञ संक्षिमशास्त्रं । निबन्धालङ्कृतं स्वयंकृतनिबन्धेन भूषितं ॥ १५ ॥ योहन्महाभिषेका_विधि मोहतमोरविम् । चक्रे नित्यमहोद्योतं स्नानशास्त्रं जिनेशिनाम् ॥ १६ ॥ नित्यमहोद्योतं नित्यमहोद्योताख्यं ॥ १६ ॥ रत्नत्रयविधानस्य पूजामाहात्म्यवर्णनम । रत्नत्रयविधानाख्यं शास्त्रं वितनुते स्म यः ॥ १७ ॥ सोऽहमाशाधरो रम्यामेतां टीकां व्यरीरचम् । धर्मामृतोक्तसागारधर्माष्टाध्यायगोचराम् ॥ १८ ॥ धर्मामृतोक्ताः म्वकृतधर्मामृताख्यशास्त्रे निगदिताः ॥ १८ ॥ .

Loading...

Page Navigation
1 ... 257 258 259 260