Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 238
________________ सागारधर्मः । २३४ ब्रह्मचारिणो मुखेन ग्राहितो लापितो यथाकथञ्चित्कृतानपराधान् मम यूयं क्षमध्वमहं च भवत्कृतांस्तान् क्षम्ये इति क्षमणं यः स तथोक्तः । एतच्च एवं निवेद्य संघायेति प्रागुक्तमेव विशेष्य पुनरुक्तम् ॥ ६६ ॥ एवमाराधनापताकाग्रहणोद्यतस्य क्षपकस्य निर्यापकाः किं कुर्युरित्याहaat निर्यापकः कर्णे जपं प्रायोपवेशिनः । दधुः सस रभयदं प्रीणयन्तो वचोमृतैः ॥ ६७ ॥ टीका ततो यथोक्तकरणीयकरणानन्तरं । दद्युः सम्पादयेयुः । के निर्यापकाः समाधिविधायिनो सुनयः । कं जपं । किंविशिष्टं, संसारभयदं संसारभयं संवेगमुपलक्षणान्निवेदं च ददानं । ऋ, कर्णे श्रुतिमार्गे । कस्य, प्रायोपवेशिनः सन्यासिनः । किं कुर्वन्तः प्रीणयन्तः सन्तर्पयन्तः । कैः, वचोऽ " PEN पीयूषसमैर्वाक्यैः || ६७ ॥ अथातो निर्यापकाचार्य कार्यों क्षपकस्य महतीमंनुशिष्टिमुत्तरत्र प्रबन्धेनोपदिशति मिथ्यात्वं सम्यक्त्वं भजोर्जय जिनादिषु । भक्ति भावनमस्कारे रमस्व ज्ञानमाविश ६८ ॥ टीका - भो आराधकराज वम निःशेषयत्वं । किं तत्, मिथ्यात्वं विपरीताभिनिवेश । तथा भज भावय त्वं । किं तत्, सम्यक्त्वं तत्त्वार्थश्रद्धानं । तथा ऊर्जय बलवतीं जीवन्तीं वा कुरु त्वं । कां, भक्ति । केषु, जिनादिषु अर्हदादिषु परमेष्ठिषु तचैत्येषु व्यवहारनिश्चयरत्नत्रये च । तथा रमस्व रतिं कुरु त्वं भावनमस्कारे अर्हदादिगुणानां सानुगगानुध्याने तथा आविश उपर्युक्ष्व त्वं । कि तत् ज्ञानं बाह्यमाध्यात्मिकं च तत्त्वबोधम् ॥ ६८ ॥ महात्रतानि रक्षोच्चैः कषायान् जय यन्त्रय । अक्षाणि पश्य चात्मानमात्मनात्मनि मुक्तये ॥ ६९ ॥ टीका - तथा रक्ष पालयत्वं । कानि, महाव्रतानि । तथा जय निगृहाण ܕ

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260