Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 244
________________ २४० सागारधर्मः । चतुर्दशीदिने हिंसामकुर्वन्नित्यर्थः । धर्मस्तु श्रेष्ठिपुत्रो भक्षितः । कैः, शिशुमारैः । क, तत्रैव तस्मिन्नेव हदे। किंविशिष्टः सन् ? मेण्दनः कृतराजमेण्टकबधः ॥ ८२॥ असत्यकृतापायं द्वाभ्यामाह मा गां कामदुधां मिथ्यावादव्याघ्रोन्मुखी कृथाः। अल्पोऽपि हि मृषावादः श्वभ्रदुःखाय कल्पते ॥ ८३ ॥ टीका-हे क्षाक मा कृथाः मा कुरु त्वं । कां, गां वाच । पक्षे अनड्वाहीं। किंविशिष्टां, कामदुघां कामं प्रार्थ्यमानमर्थ दोग्धि क्षरत्याविर्भावयतीत्येवम्भूतां सत्यवाचं कामधेनुं चेत्यर्थः । किंविशिष्टां मा कृथाः, मिथ्यावादव्याघ्रोन्मुखीं मिथ्यावादोऽसत्यजल्पः स एव व्याघ्रः कामधेनोरिव सत्यवाचः संहरणशीलत्वात्, मिथ्यावादव्याघ्रस्य उन्मुखी संमुखीं मिथ्यावादं कर्तुमुद्युक्तां व्याघ्रं च प्रतिवर्तमानां । हि यस्मादल्पोऽपि स्तोकोऽपि किं पुनर्भूयान मृषाशदो वितथव्याहारः श्वभ्रदुःखाय कल्पते सम्पद्यते, नरकदुःख सम्पादयतीत्यर्थः ॥ ८३ ॥ अजैर्यष्टव्यमित्यत्र धान्यस्त्रैवार्षिकैरिति । व्याख्यां छागैरिति परावांगानरकं वसुः ॥ ८४ ॥ टीका-अगात् गतः । कोऽसौ, वसुर्नाम राजा। किं तत्, नरकं । किं कृत्वा. परावर्त्य अन्यथा कृत्वा । कां, धान्यैस्त्रैवार्षिकैरिति व्याख्यां । कथं परावर्त्य, छागौरिति । क्व, अजैर्यष्टव्यमित्यत्र परमागमे वाक्ये । अयमर्थः । न जायंत इत्यजा वर्षत्रयवृत्तयो व्रीहयस्तैर्यष्टव्य शान्तिकपौष्टिकार्था क्रिया कार्येति क्षीरकदंबाचायः कृतं व्याख्यानं परावर्त्य अजैरजात्मकर्यष्टव्यं हव्यकव्यार्थी विधिविधातव्य इत्यन्यथा कृत्वा पर्वतनारदविसंवादे वसुराजः श्वभ्रमगमदित्यर्थः ॥ अजैोतव्यमिति कचित्पाठः ॥ ८४ ॥

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260