Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
२३८
सागारमः ।
ज्ञानोपयोगमाहात्म्यं त्रिभिः श्लोकैराह
स्वाध्यायादि यथाशक्ति भक्तिपीतमनाश्वरन् ।
तत्कालिकाद्भुतफलादुदर्के तर्कमस्यति ॥ ७८ ॥ टीका-अस्यति क्षिपति निवारयतीत्यर्थः । कोऽसौ, पुरुषः । कं, तर्क विकल्पं संशयरूपं विमर्शमित्यर्थः । कस्मिन्विषये, उदर्के उत्तरफले स्वाध्यायाद्यनुष्ठानसाध्यभागमे यदद्भुतं फलमुक्तं तन्मे भविष्यति न वेति सन्देहं । कस्मात्, तत्तत्कालिकाद्भुतफलात् क्रियमाणत्वाध्यायाद्याचरणसमयभवासम्भाव्येष्टसाध्याद् दृष्टेनादृष्टस्यासम्भाव्यस्यापि निश्चेतुं शक्यत्वात् । किं कुर्वन्, चरन् अनुतिष्ठन् । किं तत्. स्वाध्यायादि स्वाध्यायं वन्दनां प्रतिक्रमणादिकमपि मुनीनां नित्यमाचरण । कथं, यथाशक्ति अनिगृहितबलवीर्य यथा भवति । किंविशिष्टः सन् भक्तिपीतमनाः भक्त्या पीतं स्वान्तं पीतमनुरंजितं वा मनश्चित्त यस्य स तथोक्तः ॥ ७८ ॥ ___ शुले प्रोतो महामन्त्रं धनदत्तार्पितं स्मरन् । ___ दृढशूर्पो मृतोऽभ्येत्य सौधर्मात्तमुपाकरोत् ॥ ७९ ॥ ___टीका-अतिनिर्भयमुपाकरोत् स्वस्वाभिनुपतिकार्यमाणोपसर्गनिराकरणपूर्वकसत्कारकरणेनोपाकृतवान् । कोऽसौ, दृढशूर्पो नाम चोरः । कं, तं धन- . इत्तवेष्ठिन । किं कृत्वा, अभ्येत्य आगत्य । कस्मात्, सौधर्मात् सौधर्मकल्प - विमानात् । सौधर्मे महर्द्धिकदेवत्वं प्राप्त इत्यर्थादापन्नमत्र बोध्य । कथम्भृतः सन्, मृतः । किं कुर्वन्, स्मरन् । चिन्तयन् । कं, महामन्त्रं पञ्चनमस्कारं तदनुचिन्तनस्योत्कृष्ट स्वाध्यायत्वात् । किविशिष्टं, धनदत्तार्पितं धनदत्ताख्येन श्रेष्टिना ढौकित। किंविशिष्टः स्थितः, शूले प्रोतः शूलिकायामारोपितः!॥७९॥
खण्डश्लोकैस्त्रिभिः कुर्वन् स्वाध्यायादि स्वयंकृतैः। .. मुनिनिन्दाप्तमौग्ध्योऽपि यमः सप्तर्द्धिभूरभूत् ॥ ८० ॥ टीका--अभृत् । कोऽसौ, यमः यमो नाम राजा, राज्यं त्यक्त्वा प्रवजितः।

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260