Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 241
________________ अष्टमोध्यायः । सर्वतः सर्वान्वा । कथ. मद्यः म्वाविर्भावनानन्तरमेव ॥ ७४ ॥ वासुपूज्याय नम इत्युक्त्वा तत्संसदं गतः । द्विदेवारब्धविघ्नोऽभूत पनः शक्रार्चितो गणी ॥ ७५ ॥ टीका-अभूत्सम्पन्नः। कोऽसौ, पद्मः पमरथो नाम मिथिलाधिपतिः । किंविशिष्टो. गणी गणधरदेवः । किविशिष्टः सन, शक्रार्चितः इन्द्रकृतप्रातिहार्यः । पुनः किंविशिष्टः सन् , द्विदेवारब्धविघ्नः द्वाभ्यां देवाभ्यां धन्वंतरिविश्वानुलोमचराभ्यामारब्धाः कर्तुमुपक्रान्ता विघ्नाः काक–कारककृष्णसर्पमार्गखण्डनप्रभृतयोऽपशकुना: समवसरण मनान्तराया यस्य स तथोक्तः । कथम्भूतो भूत्वा, गतः प्राप्त । कां, तत्ससदं वासुपूज्यसमवसरणं । किं कृत्वा, उक्त्वा उच्चार्य ( किं, वासुपूज्याय नम इति ) ॥ ७५ ॥ एकोऽप्यर्हन्नमस्कारश्चेद्विशेन्मरणे मनः । सम्पाद्याभ्युदयं मुक्तिश्रियमुत्कयति द्रुतम् ॥ ७ ॥ टीका-चेद्यदि । विशेत् भावरूपतया व्याप्नुयात् । कोऽसौ, एकोऽपि केवलोऽपि अर्हतो भगतो नमस्कारः प्रणामः । किं तत्. मनश्चित्त । क, मरण प्राणत्यागलक्षणे । तदा द्रुतं शीघ्रमुत्कयत्युत्कंठयति । कां, मुक्तिश्रिय मोक्षलक्ष्मी । अनन्तभवेषु द्वित्रिभवेषु वा परमपदं सम्पादयतीत्यर्थः । किं कृत्वा, सम्पाद्य सम्पूर्ण प्रापथ्य । कं, अभ्युदयं महर्द्धिम् ।। ७६ ॥ स णमो अरहताणमित्युच्चारणतत्परः। गोपः सुदर्शनीभूय सुभगाह्वः शिवं गतः ॥ ७७ ।। टीका-गतः । कोसौ, आगमे प्रसिद्धः सुभगाव्हः सुभगो नाम गोपा गोपालः । किं तत्, शिवं परममुक्तिं । किं कृत्वा, सुदर्शनीभ्य वृषभदासश्रेठिपुत्रः सुदर्शनाख्यः सुरूपः सुसम्यक्त्वश्च भूत्वा । किंविशिष्टः सन, णमो अरहंताणमित्येतस्याहन्नमस्कारम्योच्चारण संशब्द तत्परम्तन्निष्टस्तदकाग्रमना इत्यर्थः ।। ७७ ॥

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260