Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 239
________________ अष्टमोध्यायः । त्वं । कान्, कषायान् क्रोधादीन् । कथं, उच्चैरत्यर्थ, तज्जये सुतरां यत्नं कुरुप्वत्यर्थः । तथा यन्त्रय निजनिजविषयेषु प्रवर्तमानानि त्वं निरुन्धि । कानि. अक्षाणि स्पर्शनादीनि । तथा पश्य अवलोकय त्वं । कं, आत्मानं । केन, आत्मना स्वयं । क, आत्मनि स्वस्मिन् । कस्यै, मुक्तये मोक्षाय न संसारसुखाय ॥ ६९ ।। मिथ्यात्वस्यापायहेतुत्वं श्लोकद्वयेन स्पष्टयति-- अधोमध्यो लोकेषु नाभून्नास्ति न भावि वा। तद् दुःखं यन्न दीयेत मिथ्यात्वेन महारिणा ॥ ७० ॥ टीका-तद् दुखमधोलोके मेरोरधः सप्तसु भूमिषु, मध्यलोके जम्बूद्वीपादिस्वयम्भूरमणसमुद्रान्ते तिर्यग्लोके, ऊर्ध्वलोके मेरुचूलिकान्ततःपभृति तनुवातवलयपर्यन्ते । नाभृत् न भृतं । नास्ति न भवति । न भावि वा न वा भविष्यति । यन्न दीयते न सम्पाद्येत जीवस्य । केन, मिथ्यात्वेन । किंविशिष्टन, महारिणा परमशत्रुणा, तस्मिन् सत्येव बाह्याभ्यन्तरशत्रूणामपकारकत्वोपपत्तेः ॥ ७० ॥ सङ्घश्रीर्भावयन्भूयो मिथ्यात्वं वन्दकाहितम् । धनदत्तसभायां द्राक्स्फुटिताक्षोऽभ्रमद्भवम् ॥ ७१ ॥ टीका-अभ्रमत् पर्यटति स्म । कोऽसौ, सङ्घश्रीर्धनदत्तनृपतिमन्त्री । कं, भवं संसारं । दीर्घसंसारोऽभृदित्यर्थः । कथम्भृतो भूत्वा, द्राक स्फुटिताक्षः झटिति स्फुटितचक्षुः । कस्यां, धनदत्तसभायां धनदत्तस्य स्वस्यामिनः परिपदि । किं कुर्वन्, भावयन् अध्यात्ममभ्यस्यन् । किं तत्. मिथ्यात्वं । किविशिष्ट, भृयो वन्दकेन पुनरारोपितं । इयमन्याश्च सर्वाः कथाः कथाकोशादिशास्त्रेषु द्रष्टव्या, ग्रंथगौरवभयादिह नोक्ताः ॥ ७१ ॥ सम्यक्त्वस्योपकारकत्वं श्लोकद्वयेनाह

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260