Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 247
________________ अष्टमोध्यायः । कषायेन्द्रियतन्त्राणां तत्तादग्दुःखभागिताम् । परामृशन्मा स्म भवः शसितव्रत तद्वशः ॥ ९० ॥ __टीका-भोः शंसितानि मह द्भिरपि स्तुतानि व्रतानि यस्य स शंसितवत मा स्म भवः मा भूस्त्वं । किंविशिष्टः, तद्वशः कषायेन्द्रियपरतन्त्रः । किं कुर्वन्, परामृशन चिन्तयन् । कां, तत्ताहग्दुःखभागितां सा षष्ठाध्याये निर्दिष्टा तादृगनन्यसाधारणी दु.खभागिता क्लेशानुभूतिस्तां । केषां, कषायेन्द्रियेषु आयत्तानां तद भभूतानामित्यर्थः ।। ९० ॥ __ एवं व्यवहाराराधनानिष्ठतां विध्याप्य निश्चयाराधनामुपदिशति श्रुतस्कन्धस्य वाक्यं वा पर बाऽक्षरमेव वा । यत्किश्चिद्रोचते तत्रालम्ब्य चित्तलयं नय ॥ ९१.॥ टीका-अहो व्यवहार रावनापरिणत आराधकराज । यत्किंचिद्य किमपि रोचते तुभ्यं रुचिनुत्पादयति च । किं तत्, वाक्यं वा बाह्यमाध्यात्मिकं वा णमो अरहंताणमित्यादिकं, पदं वा अहमित्यादिकमक्षरमेव वा अ सि आ उ सा इत्यादीनामेकतमं । कस्य सम्बन्धि, श्रुतस्कन्धस्य श्रुतस्याङ्गप्रविष्टस्य आचाराङ्गादिद्वादशविकल्पस्य अङ्गबाह्यस्य च सा नायिकादिभेदस्य प्रकीर्णकाख्यस्य स्कन्धः सङ्घातस्तस्य मध्ये यत्किंचिद्वाक्यादिकमिदानी क्षीणशक्तस्तवानुराग जनयति तत्र इष्टे वाक्यादीनामन्यतमे आलम्ब्य आसज्य चित्तमन्तःकरणं लय श्लेषं तन्मयीभावं नय प्रापय त्वमित्यर्थः । त्रयोपि वाशब्दा वाक्यादीनां तुल्यकक्षतां सूचयन्ति । रुचिरत्र भवतः प्रमाणं श्रुतस्कन्धवाक्यादीनां त्रयाणामपि भक्त्या भाव्यमानानां परमार्थाराधनासाधनसामWनिर्णयात् । अक्षरमेवेत्यत्र एवशब्दश्च स्वयोग्यव्यवस्थापकः ॥ ९१ ॥ शुद्धं श्रुतेन स्वात्मानं गृहीत्वार्य स्वसंविदा।। भावयंस्तल्लयापास्तचिन्तो मृत्वैहि निवृतिम् ॥ ९२ ॥ टीका है आर्य आराधनातत्पर । एहि गच्छ त्वं । कां, निर्वृति मुक्तिं ।

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260