Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 236
________________ २३२ सागारधर्मः। - मा कांक्षी विमोगादीन रोगादीनिव दुःखदान् । वृणीते कालकूट हि कः प्रमाबेष्टदेवताम् ॥ ६२ ॥ टीका-मा कांक्षीस्तपोमाहात्म्यादिना ममैते भूयासुरिति नाऽभिलष त्वं । कान्, भाविभोगादीन् भाविनो भोगानिष्टविषयान् । आदिशब्देन चाज्ञश्वर्यादीन् । किंविशिष्टान्, दुःखदान दुरन्तदुःखदायकान्। कानिव,रोगादीनिव ज्वरादिव्याधीष्टवियोगप्रभृतीन् यथा । हि यस्मात् कः कश्चित् वृणीते प्रार्थयते । किं तत्, कालकूटं सद्यःप्राणहरं विषं । किं कृत्वा, प्रसाद्य वरदानोन्मुखी कृत्वा । कां, इष्टदेवतामभिमतार्थप्रसादनसमर्थी देवी देवं वा ॥ ६२ ॥ क्षपकस्य चतुर्विधाहारसन्न्यासविधि कोकद्वयेनाइइति व्रतशिरोरत्नं कृतसंस्कारमुगृहन् । खरपानक्रमत्यागात् प्रायेऽयमुपवेक्ष्यति ॥ ६३ ॥ एवं निवेद्य संघाय मूरिणा निपुणेक्षिणा । सोऽनुज्ञातोऽखिलाहारं यावज्जीवं त्यजेत् त्रिधा॥६४॥ युम्भ। टीका-त्यजेत् । कोसौ, क्षपकः। कं, अखिलाहारं चतुर्विधमपि भोजनं । कथ, त्रिधा मनोवाकायैः । कियत्कालं, यावजीवं । किं कुर्वन, उद्वहन् उत्कृष्ट धारयन् । किं तद्व्रतशिरोरत्न सल्लेखनां । तस्या एव सर्वत्रतानां साफल्यसंपादकत्वेनोपरि भ्राजमानत्वाच्चूडामणिरिवाभरणानां । किविशिष्टं, कृतसंस्कारं आहितातिशयं । कथं, इत्यनेन प्रतिपत्तौ सजन्नस्यामित्या दिग्रन्थोक्तपकारेण । किविशिष्टः सन्नखिलाहारं स त्यजेत्, अनुज्ञातोऽनुमतः। केन, सूरिणा निर्यापकाचार्येण । किविशिष्टेन, निपुणेक्षिणा निपुण सूक्ष्म व्याधिदेशादितत्वमीक्षते पश्यत्यभीक्ष्णमिति निपुणेक्षी तेन, व्याधिदेशकालसत्त्वसाम्यबलपरीषहक्षमत्वसंवेगवैराग्यादीनां सूक्ष्मेक्षिकया विचारकेणेत्यर्थः । किं कृत्वा, निवेद्य ज्ञापयित्वा । कस्मै, संघाय चातुर्वर्ण्यश्रमणगणाय । कथं, एवं । अयं क्षपक उपवेक्ष्यति निश्चलं स्थास्यति दृढप्रतिज्ञो भविष्यतीत्यर्थः । क, प्राये

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260