Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 235
________________ अष्टमोध्यायः । २३१ टीका-मा कृथाः मा कुरु त्वं । कां, मति इच्छां क, आशुमरणे शीघ्र जीवितच्छेदे । कस्मात्परीषहभयात् दुःसहक्षुधादिवेदनाभीत्या । यतो निहन्ति निरुद्धास्रवं क्षपयति, विपाकान्तत्वात्कर्मणां । कोसौ, दुःखं बाधां सोढा साधुत्वेन संक्लेशपरिणामलक्षणेन सहमानः। किं तद् , अंहः पुरार्जितपापं । तथा हंति हिनस्ति । कोसौ, मुमूर्षकः कुत्सितविधिना मर्तुमिच्छन् । किं तद् , ब्रह्म ज्ञानं मोक्ष वा आत्मघाततो दीर्घसंसारो भवतीत्यर्थः ॥ ५९ ॥ सहपांसुक्रीडितेन स्वं सख्या माऽनुरञ्जय । ईदृशैबहुशो भुक्तैर्मोहदुर्ललितैरलम् ॥ ६० ॥ टीका-माऽनुरञ्जय मा स्नेहय मा प्रीणय वा त्वं । के, स्वमात्मानं । केन, सख्या मित्रण किंविशिष्टेन, सहपांसुक्रीडितेन बालावस्थायाँ सह मिलित्वा पांसुना रजसा क्रीडितं क्रीडनं येन स तथोक्तः । अतो व्यावर्तनाथेमाह-अलं पर्याप्त । तव परलोकोद्यतस्य । कैः, ईदृशैरेवंविधैर्मित्रानुरागस्मरणप्रायैः परिणामैः । किविशिष्टः, बहुशोऽनेको भुक्तैरनुभूतपूर्वैः । पुनः किंविशिष्टः, मोहदुर्ललितैर्मोहनीयकर्मविपाकजन्यदुरध्यवसायैः ॥ ६० ॥ मा समन्वाहर प्रीतिविशिष्टे कुत्रचित्स्मृतिम् ।। वासितोऽक्षसुखोव बम्भ्रमीति भवे भवी ॥ ६१ ॥ टीका-मा समन्बाहर माऽनुबन्धिनीं कुरु त्वमुत्पद्यमानामेव निवारयेत्यर्थः । कां, स्मृति चेतोवृत्तिं । क, कुत्रचित् चक्षुरादीनामन्यतमेनानुभूयमाने विये पूर्व प्रवृत्ते श्रीतिविशिष्टे प्रमोदातिशये, इत्थं मया रम्यकामिन्यादिकमीक्षितमित्थमालिंगितमित्यादिरूपेण मा स्मृतिसमन्वाहारं कुरुष्वेत्यर्थः । यतो बम्भ्रमीति कुटिलं पर्यटति कष्ट परिवर्तते । कोऽसौ, भवी जीवः । क्व, भवें आजवजवभावे । किंविशिष्टः सन्, वासितो दृढाहितसंस्कारः । कैः, अक्षसुखैरिन्द्रियसुखैरेव नात्मज्ञानसंस्कारैः ॥ ६१ ॥

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260