Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 234
________________ २३० सागारधर्मः इत्थं च निर्यापकाचार्यः क्षपकं शिक्षयदिति षड्भिः श्लोकैराह---.... शिक्षयेच्चेति तं सेयमन्त्या सल्लेखनेर्यते । ___ अतीचारपिशाचेभ्यो रक्षनामतिदुलभाम् ॥ ५७ ॥ टीका-शिक्षयच्च सूरिग्नुशिष्यात्तं क्षपकं । इति वक्ष्यमाणेन प्रकारेण । अयं पूर्वोक्तश्च द्वौ चशब्दौ तुल्यकक्षतां द्योतयतः । खरपानं पूरयेच्च तमिति शिक्षयेच्चेति सम्बन्धः । तदेव शिक्षणमाह सेयमित्यादि । हे आर्य गुणैर्गुणवद्भिश्चाश्री यमाणा सा परमागमे प्रसिद्धा इयं वर्तते । काऽसौ, सल्लेखना । किंविशिष्टा, अन्त्या मारणान्तिकी । कस्य, ते तव । तद्वद्रक्ष पालय त्वमेनां । केभ्यः, अतीचारपिशाचेभ्यः अतीचारा जीविताशंसादयः प्रागुक्तास्त एव पिशाचाश्छिद्रं प्राप्य प्रभविष्णुत्वात् । किंविशिष्टामेनाम् , अतिदुर्लभां आसंसारमप्राप्तपूर्वत्वादत्यन्तं प्राप्तुमशक्याम् ॥ ५७ ॥ क्रमेणातिचारपञ्चकपरिहारं शिक्षयन्नाह प्रतिपत्तौ सजन्नस्यां मा शंस स्थास्नु जीवितम् । भ्रान्त्या रम्यं बहिर्वस्तु हास्यः को नाऽऽयुराशिषा ॥५८॥ टीका मा शंस मा वाञ्छस्व त्वं । किं तत, जीवितं । किविशिष्टं, स्थास्नु स्थिरतरं । किं कुर्वन्, सजन आसक्तो भवन् । कस्यां, अस्यां दृश्यमानायां प्रतिपत्तौ आचार्यादिभिः क्रियमाणे परिचर्यादिविधौ महद्धिकैः पुरुषैश्च गौरवादरादिके। अत्रोपपत्तिमाह-यतो मवाते। किं तद् , बहिर्वस्तु बाह्यविषयजातं। किंविशिष्ट, रम्यमात्मनः प्रीणनं । कया, भ्रान्त्या भ्रमेण । कश्च हास्यो हसनीयो लौकिकपरीक्षकाणां न भवति । कया, आयुगशिषा जीवितं मे भूया . दित्याशंसया । स एष जीविताशंसाख्योऽतीचारः पुनरनृद्योपपत्तिविशेषेण त्याज्यतयोपदिष्टः । एवमुत्तरेऽपि ॥ ५८ ॥ परिहासभयादाशुमरणे मा मतिं कृथाः। दुःखं सोढा निहन्त्यंहो ब्रह्म हन्ति मुमूर्षकः ॥ ५९॥

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260