Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 232
________________ २२८ सागारधर्मः। केवलं करणैरेनमलं ह्यनुभवन्भवान् । स्वभावमेवेष्टमिदं भुजेहमिति मन्यते ॥ ५० ॥ टीका-केवलं परं मन्यते प्रतिपद्यते । कोऽसौ, भवान् । किं, इष्टमभिरुचितमिदं पुरोवर्ति वस्त्वहं भुञ्ज अनुभवामीत्येतत् । किं कुर्वन्, अनुभवन् भुञ्जानः । कं, स्वभावमेव आत्मपरिणाममेव वस्तुतस्तस्यैवात्मना भोग्यत्वात् । किं कृत्वा, अलं विषयीकृत्य। कं, एनं पुद्गलं । कैः, करणैः चक्षुरादीन्द्रियैः।।५० तदिदानी'ममां भ्रान्तिमभ्याजोन्मिषतीं हदि।। __स एष समया यत्र जाग्रति स्वहिते बुधाः ॥ ५१ ॥ टीका-तत्तस्मात्कारणात् । अभ्याज निवारय त्वं । कां, इमां प्रतीयमानां प्रांतिं अभोग्ये पुद्गले भोग्यबुद्धिं । किं कुर्वती, उन्मिषतीमुदयोन्मुखीभवन्तीं। क, हृदि हृदये अन्तश्चेतसि । कदा, इदानीमद्य । यतो वर्तते । कोसौ, एषोयं । स समयः कालः । यत्र किं, यत्र यस्मिञ्जाग्रति सावधाना भवन्ति । के, बुधा दृष्टतत्त्वाः । के, स्वहिते ॥ ५१ ।। अन्योऽहं पुद्गलश्चान्य इत्येकान्तेन चिन्तय । येनापास्य परद्रव्यग्रहवेश स्वमाविशेः ॥ ५२ ॥ टीका-अहमस्मि । किंविशिष्टः, अन्यः पुद्गलाद्भिन्नः । पुद्गलश्वास्ति । किंविशिष्टः, अन्यो मत्तो भिन्न इत्येतदेकान्तेन सर्वथा चिंतय भावय त्वं । येनात्मपुद्गलयोः पृथक्त्वचिन्तनेन परद्रव्यग्रहवेशमनात्मद्रव्यनिर्बन्धोपयोगमपास्य त्यक्त्वा स्वमात्मद्रव्यं त्वमाविशेरुपयुञ्जीथाः ।। ५२ ॥ क्वाऽपि चेत्पुद्गले सक्तो म्रियेथास्तद् ध्रुवं चरेः । तं कृमीभूय सुस्वादुचिर्भटासक्तभिक्षुवत् ।। ५३ ॥ टीका-कापि क्वचिद्रोजनाधुपयोगिनि पुद्गले सक्त आसक्तः सन् म्रियेथाः प्राणांस्त्यजेस्त्वं चेत्तत्ततो ध्रुवं निश्चितं चरेभक्षयेर्भक्षयिष्यसि त्वं । कं, तं पुद्गलं । किं कृत्वा, कृमीभूय तत्रैव क्षुद्रजन्तुर्भूत्वा त्वमासाद्य । किंवत् ,

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260