Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 231
________________ अष्टमोध्याय । २२७ टीका- आशयेोजयेत्सुरिः । कं, क्षपकं । कं, इष्टं किंचित्सर्वं वा क्षपकेगाकांक्ष्यमाणमाहारं । किं कृत्वा, प्रकाश्य दर्शयित्वा । कं, आहारं । किविशिष्ट, योग्य कल्प्यं । पुनः किंविशिष्ट, विचित्र नानाप्रकारं कश्चिद्धि भोज्यविशेषान दृष्ट्वा तीरं प्राप्तस्य किं ममैभिरिति प्राप्तवैराग्यः संवेगपरो भवति । कश्चिच्च किमपि भुक्त्वा, अपरश्च सर्वे भुक्त्वा तथा भवति । कश्चित्तु तानास्वाद्य तद्सासक्तिपरो भवति, चित्रत्वान्मोहनीय कर्म विलासानां । तत्र चेष्टतया भोज्यमाने भोजने अज्ञानात्तत्वानवबोधादासजन्तमासक्तिं कुर्वन्तं क्षपकं निवर्तयेत् ततो विरमयेत्सूरिः । कैः, ज्ञानाख्यानैर्बोधप्रचोदकप्रसिद्धोपाख्यानैः ॥४७॥ नवभिः श्लोकैराहार विशेषगृद्धिप्रतिषेधपुरःसरं तत्परिहारक्रममाह-भो निर्जिताक्ष विज्ञातपरमार्थ महायशः । किमद्य प्रतिभान्तीमे पुद्गलाः स्वहितास्तव ॥ ४८ ॥ टीका - भो अहो । निर्जिताक्ष निःशेषवशीकृतहृषीक । भो विज्ञातपरमार्थ अनन्यसाधारणतया निश्चितनिश्चतव्यवस्तुतत्त्व | भो महायशः सकलदिक्चक्रविसृत्वरकीर्ते आराधकराज । अद्य सम्प्रति । इमे भाजनशयनाद्युपकल्पिताः पुद्गला मूर्त पदार्थाः । किं तव प्रतिभान्ति प्रतिभासन्ते । किंविशिष्टाः, स्वहिता आत्मन उपकारकाः । किंशब्दः प्रश्न वितर्फे आक्षेपे वा ॥ ४८ किं कोपि पुद्गलः सोस्ति यो भुक्त्वा नोज्झितस्त्वया । न चैष मूर्तमृर्तस्ते कथमप्युपयुज्यते ।। ४९ ।। 1 I टीका - किमस्ति । कोऽसौ सः कोऽपि कश्चित्पुद्गलो यो नोज्झितो न व्यक्तस्त्वया । किं कृत्वा, भुक्त्वा अनादिकाले इंद्रियप्रणालिकाभिरुपभुज्य न च नैव एष पुद्गलो मूर्ती रूपादिमानमूर्त रूपादिरहितस्य ते तव कथमपि केनापि प्रकारेणोपयुज्यते उपकरोति । गगनस्येव तवैतत्कृतोपकारागोचरत्वात् ॥ ४९ ॥

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260