Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 209
________________ सप्तमोध्यायः । २०५ टीका - न भक्त य न व डनीयं श्रावकैः । किं तत्, व्रतं । किंविशिष्टं, श्रितं प्रतिपन्न । कथं, गुरुमा क्ष गुरुवोऽत्र परमेष्ठिनो दीक्षा गुरवः साधर्मिकमुख्याः स्थानवास्तुदेवताश्च गृह्यन्ते । गुरवः साक्षिणः साक्षाद्रष्टारो यत्र तद्गुरुसाक्षिकमित्यर्थः । क, प्राणान्ते व्रतभंगाकरणे प्राणनाशे सम्भवत्यपि किं पुनरितरापदि । व्रतभङ्गकरणे दुःखभूयस्त्वं दर्शयति-भवति। कोऽसौ, प्राणान्तः। किं, दुःखं । क,तत्क्षणे तस्मिन्नेव समये नोत्तरत्र । व्रतभंगः पुनर्दुःख भवति । क, भवे भवे जन्मनि जन्मनि । बुद्धिपूर्वकवतभंगकरणेन सम्यक्त्वस्यापि विराधनादनन्तसंसारित्वस्यागमे प्रतिपादनात ॥ ५२ ॥ शीलवान् महतां मान्यो जगतामेकमण्डनम् । . स सिद्धः सर्वशीलेषु यः सन्तोषमधिष्ठितः ॥ ५३ ॥ टीका-भवति कोऽसौ, शीलवान् शुचिचरत्रः श्रावको यतिर्वा । किंविशिष्टो, मान्यः सत्कृत्यः । केषां, महता मिंद्रादीनां । पुनः किंविशिष्टो, जगतां लोकानामेकमुत्कृष्टं मण्डनमलंकरणं । शीलसिद्ध्युपायमा'–स भवति । किविशिष्टः, सिद्धो निप्पन्नः प्रतीतो वा । केषु, सर्वशीलेषु सकलसदाचारेषु । यः किं,योऽधिष्ठितोऽध्यासितः। कं,सन्तोष धृति विषयवैतृष्ण्य मित्यर्थ ॥५३॥ तत्र न्यञ्चति नो विवेकतपनो नाश्चत्यविद्यातमी नाप्नोति स्खलितं कृपामृतसरिन्नोदेति दैन्यज्वरः । विस्निह्यन्ति न सम्पदो न दृशमप्यासूत्रयन्त्यापदः सेव्यं साधुमनस्विनां भजति यः सन्तोषमंहोमुषम् ॥५४॥ टीका-योंऽहोमुषं पापापहं सन्तोषं भजति सेवते । किविशिष्टं,सेव्यं । केषां, साधूनां सिद्धिसाधकानां मनस्विनां चाभिमानिनां । तत्र सन्तोषसेवके पुंसि नो न्यञ्चति नीचैर्न भवति आरूढारूढ एव भवतीत्यर्थः कोऽसौ, विवेकतपन: युक्तायुक्तविचारभास्करः । तथा न अञ्चति न प्रचरति । काऽसौ, अविद्यातमी.

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260