Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 223
________________ अष्टमोध्यायः । निर्यापकबलाद्भावितात्मनः समाधिमरणेऽन्तरायाभावं दर्शयति. समाधिसाधनचणे गणेशे च गणे च न । . दुर्दैवेनापि सुकरः प्रत्यूहो भावितात्मनः ॥ २६ ॥ टीका-न भवति। कोऽसौ, प्रत्यूहो विघ्नः। किंविशिष्टः, सुकरः सुखेन कर्तुं शक्यः । केन, दुर्दैवेन प्राकृताशुभकर्मणा । किं पुनः प्रतिपक्षा दिनेत्यपिशब्दार्थः । कस्य, भावितात्मनः भावितात्मानं समाधेश्चालयितुं दुर्दैवमपि न शक्नोतीत्यर्थः । कसति, गणेशे निर्यापकाचार्ये च । गणे च सधे । किंविशिष्टे, समाधिसाधनचणे समाधे रत्नत्रयैकाग्रतायाः साधन सम्पादनं तेन वित्ते–अनेकशः क्षपकाणां समाधिसाधनेन प्रसिद्ध इत्यर्थः ॥ २६ ॥ श्लोकद्वयेन समाधिमरणमाहात्म्यं स्तुवन्नाह प्राग्जन्तुनामुनाऽनन्ताः प्राप्तास्तद्भवमृत्यवः । समाधिपुण्यो न परं परमश्चरमक्षणः ॥ २७ ॥ टीका-प्राप्ताः । के, तद्भवमृत्यवः भवान्तरप्राप्तेरनन्तरोपश्लिष्टपूर्वभवविगमनं तद्भवमरण नाख्यायते । कियन्तः, अनन्ताः । केन, अमुना संसारिणा। जन्तुना जीवेन । कथं, प्राक् इतः पूर्वं । परं केवलं न प्राप्तः कोऽसौ, चरमक्षणः भवपर्यायविगमान्त्यसमयः । किंविशिष्टः, समाधिपुण्यः रत्नत्रयैकाग्रतया पवित्रः । संसारकारणकर्मनिर्मूलनसमर्थत्वात्परमः इतरसर्वक्षणेभ्य उत्कृष्टश्च ॥ २७ ॥ परं शंसन्ति माहात्म्य सर्वज्ञाश्वरमक्षणे । यस्मिन्समाहिता भव्या भञ्जन्ति भवपञ्जरम् ॥ २८ ॥ टीका-परमुत्कृष्टं माहात्म्यं महिमा सर्वज्ञाः शंसन्ति स्तुवन्ति । क, चरमक्षणे । यस्मिन् यत्र चरमक्षणे समाहिताः समाधि गता भव्याः भञ्जन्ति विघटयन्ति । किं तत्, भवपञ्जरं भवः संसारः पञ्जरमिव शुक्रादिपक्षिण इव जीवस्य पारतंत्र्यनिमित्तत्वात् ॥ २८ ॥

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260