Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 221
________________ अष्टमोध्यायः । २१७ समाधिमरणार्थ शरीरोपस्कारविधिमाह----- अनः पुष्टो मलदुष्टो देहो नान्ते समाधये । तत्कयो विधिना साधोः शोध्यश्चायं तदीप्सया ॥ २१ ॥ टीका-न भवति । कोऽसौ, देहः । कम्मै, समाधये समाध्यर्थ । क, अन्ते मरणसमये । किंविशिष्टो, अन्नैराहारैः पुष्ट उपचितो मलैश्च वातपित्तकफैदुष्टो विकृतः । यत एवं तत्तस्मात् कर्यः कृशीकर्तव्योऽयं देहः । कस्य, साधोः सिद्धिसाधकेनेत्यर्थः । केन, विधिना सल्लेखनाविधानेन । शोध्यश्च योग्यविरेचनबस्तिकर्मादिना निष्काशितजठरमलः कर्तव्यः । कया, तदीप्सया समाधिवाञ्छया ॥ २१ ॥ कषायकर्शनं विना कायकर्शनस्य नैष्फल्यं समर्थयते सल्लेखनाऽसलिखतः कषायानिष्फला तनोः । कायोऽजडैदण्डयितुं कषायानेव दण्ड्यते ॥ २२ । टीका-भवति। काऽसौ, सल्लेखना कृशीकरण । कस्याः, तनोः शरीरस्य। किंविशिष्टा, निष्फला । किं कुर्वतः, असंलिखतः कृशानकुर्वतः साधोः । कान्, कषायान्, क्रोधादीन् । यतो दंड्यते परिकृश्यते । कोऽसौ, कायः । कैः, अजडैः बुधैः । किं कर्तु, दण्डयितुं निग्रहीतुं । कान्, कषायानेव न रसरतादिधातून् ॥ २२ ॥ आहारदृप्तमनसां कषायदुर्जयत्वं प्रकाश्य भेदज्ञानबलाज्जेतृणां जयवादपाह अन्धोमदान्धैः प्रायेण कषायाः सन्ति दुर्जयाः । ये तु स्वाङ्गान्तरज्ञानात्तान् जयन्ति जयन्ति ते ॥ २३ ॥ टीका-सन्ति भवंति। के, कषायाः। किंविशिष्टाः, दुर्जया जेतुमशक्याः। कैः, अन्धोमदांधैः अन्धस आहारस्य मदः क्षीबता आहारकृतो मनोदर्प इत्यर्थः । अन्धोमदेन अन्धाः स्वपरतत्त्वज्ञानविकला: अन्धोमदान्धास्तैः । केन, प्रायेण बाहुल्येन । कदाचिद्देवदुर्योगात्तैरपि कषाया जीयन्ते इत्येवमर्थमेतत् । ये

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260