Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 219
________________ अष्टमोध्यायः । २१५ 2 आराधितोपि । कियत् चिरं दीर्घकालं । स तु धर्मस्तत्क्षणे मरणसमये । आराधितो भावितः क्षिपति निराकरोति । किं तत्, अहः पापं । किंविशिष्टं, चिरार्जितमपि असंख्यातभवको ट्युपार्जितमपि ॥ १६ ॥ चिरकालभावितश्रामण्यस्यापि विराध्य म्रियमाणस्याकीर्तिदुष्परिपाकां स्वार्थक्षतिं दर्शयति नृपस्येव यतेर्धर्मो चिरमभ्यस्तिनोऽस्त्रवत् । gata स्खलतो मृत्यt स्वार्थभ्रंशोऽयशः कटुः ॥ १७ ॥ टीका - भवति । कोऽसौ स्वाभिमतार्थभ्रंशः स्वाभिमतार्थनाशः । कस्य यतेः । कस्येव, नृपस्येव राज्ञो यथा । किंविशिष्टः, अयशः कटुः अकीर्तिदुःखदः । किं कुर्वतः स्खलतः प्रमाद्यतः । कस्मिन् धर्मे । क्क, मृत्यौ मरणक्षणे । कस्याभिव. युधीव युद्धसमये यथा । किंविशिष्टस्य चिरं दीर्घकालं धर्मे अस्त्रवत् शस्त्रे यथा अभ्यस्तिनः कृताभ्यासस्य । अभ्यस्तं पूर्वमनेनेति विगृह्य श्राद्धं भुक्तं ठोऽनेन वेत्यनेन इन्प्रत्ययः ॥ १७ ॥ " ननु सुभावितमार्गस्यापि कस्यचित्समाधिमरणं न दृश्यते कस्यचित्पुनरभावित मार्गस्यापि तदुपलभ्यते, तदनाप्तीयमिति वदन्तं प्रति श्लोकद्वयमाहसम्यग्भावित मार्गोऽन्ते स्यादेवाराधको यदि । प्रतिरोधि सुदुर्वारं किञ्चिन्नोदेति दुष्कृतम् ॥ १८ ॥ टीका - स्यादेव अवश्यं भवेत् । कोऽसौ सम्यम्भावितमार्गः सम्यक् सम्पूर्ण चिरं भावितोऽभ्यस्तो मार्गो रत्नत्रयं येन स तथोक्तः । 'कंविशिष्टः स्यात्, अन्ते जन्ममान्ते आराधकस्तदा । यदि चेन्नोदेति नोद्भवति । किं तत्, दुष्कृतं पुराकृतमशुभं कर्म । किंविशिष्ट, प्रतिरोध समाधिप्रतिखण्डकं । पुनः किं विशिष्ट, सुदुर्वारं यत्नशतेनापि प्रतिषेद्धुमशक्यं । पुनरपि किंविशिष्टं, किञ्चिदनिर्दिष्टनामकं । उक्तं च- मृतिकाले नरा हन्त सन्तोपि चिरभाविताः । पतन्ति दर्शनादिभ्यः प्राकृताशुभगौरवात् । या त्वभावितमार्गस्य कस्या

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260