Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 228
________________ २२४ सागारधर्मः स्माभिनिवेशेनैव मोक्ष्यते मुक्तो भविष्यति । यत एवं तत एतस्मात्कारणात् तं स्वदेहग्रहमावहेत्कुर्यान्मुमुक्षुः ॥ ४० ॥ शुद्धिविवेकपाप्तिपूर्वकं समाधिमरण प्रणौति अलब्धपूर्व किं तेन न लब्धं येन जीवितम् । त्यक्तं समाधिना शुद्धिं विवेक चाप्य पञ्चधा ॥ ४१ ॥ टीका- तेन महामव्येन । किमलब्धपूर्वमनादिकालमप्राप्तं सम्यक्त्वसहचारि महाभ्युदयादिकं न लब्धं तत्सर्व प्राप्तमित्यर्थः । येन जीवितं समाधिना रत्नत्रयैकाग्रतया त्यक्तं । किं कृवा, पञ्चधा पञ्चप्रकारं शुद्धिं पञ्चप्रकारं च विवेकमाप्य ॥ ४१ ॥ बहिरंगान्तरंगविषयभेदात्पञ्चविधां शुद्धिमाह शय्योपध्यालोचनान्नवैयावृत्येषु पञ्चधा । शुद्धिः स्यात दृष्टिधीवृत्तविनयावश्यकेषु वा ॥ ४२ ॥ टीका—स्यादसौ शुद्धिः । कतिधा, पञ्चधा । केषु, शय्यादिषु विषयेषु । तत्र शाय्या वसतिसंस्तरौ उपधिः सयमसाधनं । आलोचना गुरवे दोषनिवेदनं । अन्नं चतुर्विगहाराः । वैयावृत्यं परिचारकैः क्रियमाण पादमर्दनादिक । तेषु पञ्चसु शुद्धिः प्राणेन्द्रियसंयमेन प्रवृत्तिरेषा बाह्या । इयं त्वन्तरङ्गा पञ्चधा शुद्धिः स्यात् । याऽसौ दृष्टयादिषु पंचसु । दृष्टौ दर्शने धियां ज्ञाने, वृत्ते चारित्रे, विनये प्रश्रये, आवश्यक सामयिकादिषटकाचरणे च निरतिचारतया प्रवृत्तिः ॥ ४२ ॥ शुद्धिवन्तद्वयेन पञ्चधा विवेकमाहविवेकोऽक्षकपायाङ्गभक्तोपधिषु पञ्चधा । स्याच्छय्योपधिकायानवयावृत्यकरेषु वा ।। ४३ ॥ टीका--विवेक आत्मनः पृथग्भावः साध्यवसायः पञ्चधा स्यात् । केषु, अक्षादिषु विषयेषु । तत्रेन्द्रियेभ्यः कषायेभ्यश्चात्मनः पृथक चिन्तनं द्विविध)

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260