Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 194
________________ चति । कोसो, आत्मा पुरुषः । किविशिष्टोऽनन्तशक्तिः अनन्ता निःसीमाः शक्तयो अर्थक्रियाकारिसामर्थ्यानि यस्य सः अनन्तशक्तिः । इति श्रुतिः । किं भवति, वस्त्वेव वस्तुविषयैव । न भवति सा । किं, स्तुतिः गुणाल्पत्वे सति तद्बहुत्वकथनं । कुत इत्याह-यद्यस्मात् जयेत् प्रतिबनीयात्। कोऽसौ, आत्मैव । किंविशिष्टः, स्वद्रव्ययुक् परद्रव्यव्यावर्तनेन आत्मद्रव्यं समादधानः । कं, स्मरं कन्दर्प । किंविशिष्ट, जगज्जत्रं जगतां परद्रव्यप्रवृत्तिमतां प्राणिनां जैत्रमभिभावुकं ॥ १७ ॥ - मन्दमत्यनु जिवृक्षया ब्रह्मचर्यमाहात्म्यमाह विद्या मन्त्राश्च सिद्धयन्ति किङ्करन्त्यमरा अपि ।। क्रूराः शाम्यन्ति नाम्नाऽपि निर्मलब्रह्मचारिणाम् ॥ १८ ॥ टीका-सिद्धयन्ति वरप्रदा भवन्ति । काः, विद्याः साधितसिद्धाः । मन्त्राश्च पठितसिद्धाः। तथा किंकरन्ति किङ्करा इव आचरन्ति। के, अमरा देवाः। किं पुनर्मानवा स्तियञ्चो वेत्यपिशब्दार्थः। तथा शाम्यन्ति उपसर्गकरणान्निवर्तन्ते । के, क्रूराः ब्रह्मराक्षसादयः । केन, नाम्ना संज्ञोच्चारणमात्रेण । किं पुनः सन्निधानेनेत्यपिशब्दार्थः केषां, निर्मलब्रह्मचारिणां निरतिचारब्रह्मचर्यभाजाम् ॥ १८ ॥ प्रसङ्गवशाब्रह्मचर्याश्रमं किञ्चिद्याचष्टेप्रथमाश्रमिणः प्रोक्ता ये पञ्चोपनयादयः । तेऽधीत्य शास्त्रं स्वीकुर्युर्दारानन्यत्र नैष्ठिकात् ॥ १९ ॥ टीका-ये प्रोक्ताः परमागमे प्रतिपादिताः । के, प्रथमाश्रमिणः मौजीबन्धनपूर्वत्रतानुष्ठायिनः । कति, पञ्च। के, ते उपनयादयः उपनय आदिउँपामवलम्बादीनां तं । तत्र उपनयब्रह्मचारिणो गणधरसूत्रधारिणः समभ्यस्तागमा गृहिधर्मानुष्ठायिनो भवन्ति । अवलम्बब्रह्मचारिणः क्षुल्लकरूपेणागममभ्यम्य परिगृहीतगृहावासा भवन्ति । अदीक्षाब्रह्मचारिणो वेषमन्तरेणाभ्य

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260