Book Title: Sagar Dharm
Author(s): Ashadhar Pandit
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 203
________________ सप्तमोध्यायः । १९९ टीका- आश्रयेत् स्वीकुर्यात् । कोऽसौ, नैष्ठिकाग्रणीः नैष्ठिकेषु दार्शनिकादिषु नवस्वग्रणीर्मुख्योऽनुमतिविरनः । किं तत्, पदं स्थानं । किंविशिष्टं पौरस्त्यं एकादशमुद्दिष्टविरत्याख्यं । कस्मै, साधकत्वाय आत्मशोधनार्थं । किं कृत्वा, निष्ठाप्य । कां चर्यो संयमाचारं । किंविशिष्टां, गृहत्यापर्यन्तां गृहत्यागः पर्यन्ते अवसाने यस्यास्तां । कथं, इत्येवम् ॥ ३६ ॥ अथोद्दिष्ट विरतस्थानं त्रयोदशभिः श्लोकैर्व्याचष्टेतत्तद्व्रतास्त्रनिर्भिन्नश्वसन्मोहमहाभटः । — उद्दिष्टं पिण्डमप्युज्झेदुत्कृष्टः श्रावकोऽन्तिमः ॥ ३७ ॥ टीका-उज्झेत् त्यजेत् । कोऽसौ, अन्तिमः श्रावकः । किविशिष्टः, उत्कृष्टः अयमित्थंगतनयादुत्कृष्टोऽनुमतिविरतस्तु नैगमनयादिति ज्ञापनार्थमुभौ भिक्षू तो प्रकृष्टौ चेति प्रागुक्तमपीदं विशेषण पुनरुक्तं । किमुज्झेत्, पिण्डं भक्तं अपिशब्दादुपधिशयनासनादि । किंविशिष्ट, उद्दिष्ट आत्मोद्देशेन कल्पितं । नवकोटिविशुद्ध स्वीकुर्यादित्यर्थः । किं विशिष्टः सन् तदित्यादि - तानि पूर्वोक्तानि व्रतानि यथास्वं निवृत्तिप्रवृत्तिरूपाण्याचरणानि तत्तद्व्रतानि तान्येवास्त्राणि हरणानि तैर्भिन्नो नितरां विदारितः सचासौ श्वसन् किञ्चिज्जीवन जिनरुपताप्राप्तिं प्रतिबध्नन् मोह एव महाभटो दुर्निवारवीरो यस्य स तथोक्तः ॥ ३७ ॥ तद्वेदलक्षणार्थमाह- " म द्वेधा प्रथमः श्मश्रुमृर्धजानपनाययेत् मितकौपीन संव्यानः कर्तर्या वा क्षुरेण वा ॥ ३८ ॥ 1 टीका -स उत्कृष्ट श्रावको द्वेधा द्विविधो भवति । तत्राद्यस्य प्रथम इत्यादिना प्रबन्धेन विधिमभिधत्ते अपनाययेत् छेदयेत् । कोऽसौ, प्रथम आद्य उद्दिष्टविरतः । कान, मश्रुमूर्धजान् कूर्च शिरः केशान् । कया, कर्तर्या कर्तरिकया । वा क्षुरेण नापितोपकरणेन वा । अत्र कर्तर्याऽपनायनं श्लाघ्यतरं

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260