Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 12
________________ रघुवंश महाकाव्यम् त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् । यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥ ७ ॥ सञ्जी० -- त्यागायेति । त्यागाय सत्पात्रे विनियोगस्त्यागस्तस्मै । ' त्यागो विहापितं दानम्' इत्यमरः । संभृतार्थानां सञ्चितधनानाम् । न तु दुर्व्यापाराय । सत्याय मितभाषिणां मितभाषणशीलानाम् । न तु पराभवाय । यशसे कीर्तये । 'यशः कीर्तिः समज्ञा च' इत्यमरः । विजिगीपूणां विजेतुमिच्छूनाम् । न त्वर्थसंग्रहाय । प्रजायै संतानाय गृहमेधिनां दारपरिग्रहाणाम् । न तु कामोपभोगाय । अत्र 'श्यागाय' इत्यादिषु 'चतुर्थी तदर्थार्थ०' इत्यादिना तादर्थे चतुर्थीसमासविधानज्ञापकाच्चतुर्थी । गृहैर्दारैर्मेधन्ते सङ्गच्छन्त इति गृहमेधिनः । ' दारेष्वपि गृहाः पुंसि' इत्यमरः । 'जाया च गृहिणी गृहम्' इति हलायुधः । 'मेष्ट संगमे' इति धातोर्णिनिः । एभिर्विशेषणेः परोपकारित्वं सत्यवचनत्वं पितॄणां शुद्धत्वं च विवक्षितानि । भ० - त्यागाय, सम्भृतार्थानां सत्याय, मितभाषिणां यशसे, विजिगीषूणाम्, प्रजायै, गृहमेधिनाम् । सुधा-त्यागाय =सत्पान्ने दानाय, सम्भृतार्थानां सञ्चितधनानां, न तु दुर्व्यापारायेति भावः । सत्याय = यथार्थाय मितभाषिणां नाधिकभाषणशीलानां न तु पराभवायेति भावः । यशसे = कीयै, विजिगीपूणां = विजयेच्छुकानां, नत्वर्थसङ्ग्रहायेति भावः । प्रजायै = सन्तत्यै, गृहमेधिनां कृतदारपरिग्रहाणां न तु कामोपभोगायेति भावः ॥ स० 10 - गर्हन्ते गृह्णन्ति वा धान्यादिकमिति गृहाः तैर्दारैर्मेधितुं शीलमेषां ते गृहमेधिनस्तेषां गृहमेधिनाम् ॥ ता०-ग्रहाणाम् ॥ कोप - 'अर्थी हेतौ प्रयोजने । निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुषु' इति हैमः। ‘सत्यं तथ्यमृतं सम्यग्' इत्यमरः । 'प्रजा स्यात् सन्ततौ जने' इत्यमरः । ० – परोपकारिणां सत्यभाषिणां यशोधनानां पूर्वपुरुपोद्धारार्थकृतदारपरिइन्दुः-- सत्पात्र में दान देने के अर्थ धन इकट्ठा करनेवाले यश के अर्थ विजय चाहनेवाले, सन्तान के अर्थ विवाह करनेवाले ॥ ७ ॥ शैशवेऽभ्यस्तविद्यानां यौवनं विषयैषिणाम् । is [ प्रथमः वार्धके मुनिवृत्तीन' योगनान्ते तनुत्यजाम् ॥ ८ ॥ सञ्जी० - शैशव इति । शिशोर्भावः शशवं बाल्यम् । 'प्राणभृज्जातिवयोवचनोद्वान्न०' इत्यन्प्रत्ययः । ‘शिशुत्वं शैशवं वाल्यम्' इत्यमरः । तस्मिन्वयस्यभ्यस्त विद्यानाम् । एतेन ब्रह्मचर्याश्रमो विवक्षितः । यूनो भावो यौवनं तारुण्यम् । युवादित्वादण्प्रत्ययः । ' तारुण्यं यौवनं समम्' इत्यमरः । तस्मिन्वयसि विषयैषिणां भोगाभिलाषिणाम् । एतेन गृहस्थाश्रमो विवचितः । वृद्धस्य भावो वार्द्धकं वृद्धत्वम् । 'द्वन्द्वम

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 149