Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सर्गः]
सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् | भी लगाना चाहिये। कुलक होने से यहाँ से पाँचवें श्लोक में से इस अर्थ का आक्षेप किया जाता है ॥५॥
यथाविधिहुताग्नीनां यथाकामाचिताथिनाम |
यथाऽपराधदण्डानां यथाकाल प्रबोधिनाम ॥६॥ सञ्जी०-यथेति । विधिमनतिक्रम्य यथाविधि । 'यथाऽसादृश्ये' इत्यव्ययीभावः । तथा हुतशब्देन सुप्सुपेति समासः। एवं 'यथाकामार्चित-इत्यादीनामपि द्रष्टव्यम् यथाविधि हुता अग्नयो यैस्तेषाम् । यथाकाममभिलाषमनतिक्रम्यार्चितार्थिनाम् । यथाऽपराधमपराधमनतिक्रम्य दण्डो येषां तेषाम् । यथाकालं कालमनतिक्रम्य प्रबोधिनां प्रबोधनशीलानाम् । चतभिर्विशेषणैर्देवतायजनार्थिसत्कारदण्डधरत्वप्रजापालनसमयजागरूकत्वादीनि विवक्षितानि । ___ अ०-यथाविधिहुतानीनां, यथाकामार्चितार्थिनां, यथाऽपराधदण्डानां, यथाकालप्रबोधिनाम् ।
सुधा-यथाविधिहुताग्नीनां विधिमनतिक्रम्य, शास्त्ररीत्येति यावत्, तर्पितपावकानां यथाकामार्चितार्थिनां अभिलाषमनतिक्रम्य पूजितयाचकानां, यथाऽपराधदण्डानाम् = अपराधमनतिक्रम्य 'अपराधानुसारेण' इति यावद्, दण्डप्रदानां, यथाकालप्रबोधिनां= कालमनतिक्रम्य 'उचितसमये' इति यावद्, जागरूकाणां, 'दत्तावधानानाम्' इति यावत् ।
स०-विधिमनतिक्रम्येति यथाविधि यथाविधि हुताः, यथाविधिहुताः यथा विधिहता अग्नयो यैस्ते यथाविधिहुताग्नयस्तेषां यथाविधिहुताग्नीनाम् । काममनतिक्रम्य यथाकामम् यथाकामम् अर्चिता यथाकामार्चिताः यथाकामार्चिता अर्थिनोयैस्ते यथाकामार्चितार्थिनस्तेषां यथाकासार्चितार्थिनाम् । अपराधमनतिक्रम्ययथाऽपराधं यथाऽपराधं दण्डो येषान्ते यथाऽपराधदण्डास्तेषां यथाऽपराधदण्डानाम्, यथाकालं प्रबोधिनो यथाकालप्रबोधिनस्तेषां यथाकालप्रवोधिनाम् ।
को-'विधिविधाने देवेऽपि' इत्यमरः। 'कामं प्रकामं प्रर्याप्त निकामेष्टं यथेप्सितम्' इति । 'इच्छामनोभवौ कामौ' इति चामरः। 'स्यादर्हिते नमस्थितनमसितमपचायितार्चितापचितम्' इत्यमरः। 'वनीयको याचनको मार्गणो याचकार्थिनौ' इत्यमरः । 'आगोऽपराधो मन्तुश्च' इत्यमरः। 'कालो दिष्टोऽप्यनेहाऽपि समयोऽपि' इत्यमरः।
ता०-शास्त्ररीत्या यज्ञकर्तृणाम् अतिथिसत्कारपरायणानां दुष्टनिग्रहकराणां प्रजापालनसमये जागरूकाणाम् ।
इन्दुः-विधिपूर्वक अग्नि में आहुति देनेवाले, इच्छानुसार याचकों का सम्मान करनेवाले, अपराध के अनुसार दण्ड देनेवाले, उचित समय पर सावधान रहनेवाले ॥६॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 149