Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 9
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । जैसे कि लम्बे पुरुषं के हाथ लगने योग्य फल की ओर लोभ से ऊपर हाथ किया हुआ बौना ॥३॥ मन्दश्चेत्तर्हि त्यज्यतामयमुद्योग इत्यत आह अथवा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः ।। मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ।। ४ ॥ सञ्जी०-अथवेति । अथवा पक्षान्तरे पूर्वैः सूरिभिः कविभिल्मीक्यादिभिः कृतवाग्द्वारे कृतं रामायणादिप्रवन्धरूपा या वाक्सव द्वारं प्रवेशो यस्य तस्मिन् । अस्मिन्सूर्यप्रभवे वंशे कुले । जन्मनेमलक्षणः सन्तानो वंशः । वज्रेण मणिवेधकसूचीविशेषेण । 'वज्र, स्वस्त्री कुलिशशस्त्रयोः । मणिवेधे रत्नभेदे' इति केशवः । समुत्कीर्णे विद्धे मणौ रत्ने सत्रस्येव मे मम गतिः सञ्चारोऽस्ति । वर्णनीये रघुवंशे मम वाक्प्र. सरोऽस्तीत्यर्थः।। अ०-अथवा, पूर्वसूरिभिः कृतवाग्द्वारे, अस्मिन्, वंशे, वज्रसमुत्कीर्णे, मणौ, सूत्रस्य, इव, मे, गतिः, अस्ति वा०-अथवा पूर्वसूरिभिः कृतवारद्वारेऽस्मिन् वंशे वज्रसमुत्कीर्णे मणौ सूत्रस्येव मे गत्या भूयते । सुधा-अथवा = पतान्तरे, पूर्वसूरिभिः = प्राचीनकविभिः 'वाल्मीक्यादिभिः इति यावत्, कृतवारद्वारे = रचितबन्धात्मकवचनप्रवेशे, अस्मिन् = एतस्मिन् 'सूर्यप्रभवे' इति यावद्, वंशे = कुले, वज्रसमुत्कीर्णे =मणिवेधकसूचीविशेषविद्ध, मणौ = रत्ने, सूत्रस्य तन्तोः, इव = यथा, मेमम, गतिः=सञ्चारः, अस्तिवर्तते । वर्णनीये रघुवंशे मम वाक्प्रसरोऽस्तीति भावः। स०-वक्तीति वाक सैव द्वारं वाग्द्वारं कृतं वाग्द्वारं यस्य स कृतवाग्द्वारस्तस्मिन् कृतवारद्वारे, वज्रेण समुत्कीर्णः वज्रससुत्कीर्णस्तस्मिन् वज्रसमुत्कीर्णे। को०-'गीर्वाग्वाणी सरस्वती' इत्यमरः । 'स्त्री द्वार प्रतीहारः स्याद्' इत्यमरः । 'वंशोऽन्ववायः सन्तानः' इत्यमरः । 'पूर्वोऽन्यलिङ्गः प्रागाह पुम्बहुत्वेऽपि पूर्वजान्' इत्यमरः । 'धीमान् सूरिः कृती कृष्टिलब्धवर्णो विचक्षणः' इत्यमरः। 'रत्नं मणिद्वयोरश्मजातौ मुक्ताऽऽदिकेऽपि च' इत्यमरः । 'सूत्राणि नरि तन्तवः' इत्यमरः।। __ ता०-यथा मणिवेधकसूचीविद्धे मणौ सूत्रस्य सञ्चरणं भवति, तथैव वाल्मीक्यादिकृतरामायणरूपप्रबन्धात्मकवचनप्रवेशेऽस्मिन् सूर्यवंशे ममापि सञ्चरणमस्तीति । ___इन्दुः-अथवा पहले के कवियों (वाल्मीकि आदिकों) के द्वारा वर्णन किये हुए रामायण प्रबान्धात्मक द्वारवाले, सूर्यवंशमे, मणिवेधनेवाले सूचीविशेष से वेध किये हुए मणि में सूत्र की भाँति मेरी गति है ॥ ४॥ ___एवं रवंघुशे लब्धप्रवेशस्तवर्णनां प्रतिजानानः 'सोऽहम्' इत्यादिभिः पञ्चभिः श्लोकः कुलकेनाह सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् |

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 149