Book Title: Raghuvansh Mahakavyam Author(s): Kalidas Mahakavi, Bramhashankar Mishr Publisher: Chaukhamba Vidyabhavan View full book textPage 8
________________ ४ रघुवंश महाकाव्यम् - अस्मि = भवामि, अल्पसाधनैरधिकारम्भो न सुकर इति भावः । स० ― गरेण सहोत्पन्नः सगरः तेन निर्वृत्तः सागरस्तं सागरम् । - को० – 'बुद्धिर्मनीषा धिपणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । सरस्वान् सागरोऽर्णवः' इत्यमरः । ता०-- सूर्यवंशस्याल्पविषयाया मन मतेश्च महत्यन्तरे सत्यपि सूर्यवंशवर्णने मदीया प्रवृत्तिश्चर्मावनद्वयानपात्रेण सागरतरणमिव हास्यविषयेति । [ प्रथमः इन्दुः- कहौं तो सूर्य से उत्पन्न हुआ वंश, और कहाँ थोड़े विषयों का ग्रहण करनेवाली मेरी बुद्धि, अतः असका वर्णन करने में मैं अज्ञान से पनसुहिया डोंगी द्वारा दुस्तर सागर पार करने की इच्छा करनेवाले की भाँति हूँ ॥ २ ॥ * मन्दः ( १ ) सन् महाकाव्यं चिकीर्षुः कविः स्वासामर्थ्यं कथयति— मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् । प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामनः ॥ ३ ॥ सञ्जी० - मन्द इति । किं च मन्दो मूढः । ' मूढात्पापनिर्भाग्या मन्दाः स्युः" इत्यमरः । तथाऽपि कवियशःप्रार्थी । कवीनां यशः काव्यनिर्माणेन जातं तत्प्रार्थनाशीलोऽहं प्रांशुनोन्नतपुरुषेण लभ्ये प्राप्ये फले फलविषये लोभादुद्वाहुः फलग्रहणायोच्छ्रितहस्तो दामनः खर्व इव । 'सर्वो इस्वश्च वामनः' इत्यमरः । उपहास्यतामुप• हासविषयताम् । 'ऋहलोर्ण्यत्' इति ण्यत्प्रत्ययः । गमियामि प्राप्स्यामि । अ० - मन्दः 'तथाऽपि' कवियशःप्रार्थी, 'अहं' प्रांशुलभ्ये, फले, लोभाद्, उद्वाहुः, वामन, इव, उपहास्यतां गमिष्यामि । वा० - मन्देन कवियशः प्रार्थिना 'मया' प्रांशुलभ्ये फले लोभादुद्वाहुना वामनेनेवोपहास्यता गंस्यते । सुधा०--'किञ्च' मन्दः = मूढः, 'तथाऽपि' कवियशः प्रार्थी = काव्य कर्तृकीर्तिकाङ्क्षी, 'अहं' प्रांशुलभ्ये = उन्नतपुरुषप्राप्ये, फले = फलविषये, लोभात् = प्राप्तीच्छया, उद्वाहुः = उच्छ्रितहस्तः, वामनः = खर्वः, इव = यथा, उपहास्यताम् = उपहासवि षयतां, गमिष्यामि प्राप्स्यामि । स०—– कवयन्तीति कवयः तेषां यशः कवियशः तत् प्रार्थयितुं शीलमस्य स कवियशः प्रार्थी । लब्धुं योग्यं लभ्यं प्रकृष्टा अंशवो यस्यासौ प्रांशुः तेन लभ्यं प्रांशुलभ्यं तस्मिन् प्रांशुलभ्ये । उदुच्छ्रितौ बाहू यस्य स उद्वाहुः । को० - 'धीरो मनीपो ज्ञः प्राज्ञः सङ्ख्यावान् पण्डितः कविः' इत्यमरः । 'यशः कीर्तिः समज्ञा च' इत्यमरः । 'उच्चप्रांशुन्नतोदग्रोच्छ्रितास्तुङ्गे' इत्यमरः । ता०—उन्नतपुरुषप्राप्यफलस्य ग्रहणे वामनो यथोपहास्यो भवति, तथैव विशिटकविवर्णनीयचरितस्य रघुकुलस्य वर्णनेऽहमुपहास्यो भविष्यामीति । इन्दुः- कवियों के यश पाने की इच्छा करनेवाला, मन्दबुद्धि मैं हँसी को पाऊँ।। (१) यत्रावतरणम् एतच्चिद्देन तत् 'सुधा' काररचितं ज्ञेयम् । *Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 149