Book Title: Raghuvansh Mahakavyam Author(s): Kalidas Mahakavi, Bramhashankar Mishr Publisher: Chaukhamba Vidyabhavan View full book textPage 6
________________ रघुवंशमहाकाव्यम्-- [ प्रथमःचारपरिप्राप्तत्वाद्, (आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम्) इत्याशीर्वादाधन्यनमस्य प्रवन्धमुखलक्षणत्वात्, काव्यनिर्माणस्य विशिष्टशब्दार्थप्रतिपत्तिमूल. कत्वेन विशिष्टशव्दार्थयोश्च (शब्दजातमशेपं तु धत्ते शर्वस्य वल्लभा । अर्थरूपं यदखिलं धत्ते सुग्धेन्दुशेखरः) इति वायुपुराणसंहितावचनवलेन पार्वतीपरमेश्वरायत्तदर्शनात्तत्प्रतिपित्सया तावेवाभिवादयते वागर्थाविव संपत्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दै पावनीपरमश्वरौ ॥१॥ सञ्जी०-वागिति । वागर्थाविवेत्येकं पदम् । इवेन सह नित्यसमासो विभक्त्यलोपश्च पूर्वपदग्रकृतिस्वरत्वं चेति वक्तव्यम् । एवमन्यत्रापि द्रष्टव्यम् । वागर्थाविव शब्दार्थाविव सम्पृक्तौ नित्यसम्बद्धावित्यर्थः। नित्यसम्बद्धयोरुपमानत्वेनोपादानात् 'नित्यः शब्दार्थसम्बन्धः' इति मीमांसकाः। जगतः लोकस्य पितरौं । माता च पिता च पितरौ । 'पिता मात्रा' इति द्वन्द्वैकशेषः । 'मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ' इत्यमरः । एतेन शर्वशिवयोः सर्वजगजनकतया वैशिष्टयमिष्टार्थप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते । पर्वतस्यापत्यं स्त्री पार्वती 'तस्यापत्यम्' इत्यण। 'टिड्ढाणजद्वयसजनज०' इत्यादिना डीप । पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरी । परमशब्दः सर्वोत्तमत्वद्योतनार्थः । मातुरभ्यर्हितत्वादल्पाक्षरत्वाच्च पार्वतीशब्दस्य पूर्वनिपातः । वागर्थप्रतिपत्तये. शब्दार्थयोः सम्यग्ज्ञानार्थं वन्देऽभिवादये अनोपमाऽलङ्कारः स्फुट एव । तथोक्तं-(स्वतः सिद्धेन भिन्नेन सम्पन्नेन च धर्मतः । साध्यमन्येन वय॑स्य वाच्यं चेदेकगोपमा ॥) इति प्रायिकश्योपमाऽलङ्कारः कालिदासोक्तकाव्यादौ । भूदेवताकस्य सर्वगुरोर्मगणस्य प्रयोगाच्छुभलाभः सूच्यते । तदुक्तं 'शुभदो मो भूमिमयः' इति । वकारस्यामृतबीजत्वात्प्रचयगमनादिसिद्धिः ।। प्रेम्णा प्रेमनिधेः प्रणम्य चरणाम्भोजातयुग्मं गुरोस्तत्कारुण्यकणानवाप्य करुणापूर्णा विमूढात्मनि । कान्येऽस्मिन् रघुवंशनामनि ननु व्याख्यां सुधाख्यामिमां गुर्वज्ञानगरागंलां गुरुतरां कुर्मों यदप्यक्षमाः ॥ अ०–'अहं कालिदासः' वागविव, सम्पृक्तौ, जगतः, पितरौ, पार्वतीपरमेश्वरी, वागर्थप्रतिपत्तये, वन्दे ॥ वाच्यान्तम्-'मया' वागर्थाविव सम्पृक्तौ जगतः पितरौ पार्वतीपरमेश्वरी वागर्थप्रतिप्रत्तये वन्ते ॥ _ सुधा-'अहमित्यस्य कर्तृपदस्य क्रिययाऽऽक्षेपः कर्तव्यः' । वागर्थाविव= शब्दाभिधेयाविव, सम्पृक्तौ =सततमनुवाद्वौ, जगतःलोकस्य, पितरौ मातापितरौ, पार्वतीपरमेश्वरौ = गिरिजामहेश्वरी, वागर्थप्रतिपत्तये = शब्दार्थोभयसम्यगज्ञानार्थ, वन्दे प्रणमामि । यथा वागर्थी नित्यसम्बद्धौ तथैव लोकस्योत्पादकौ उमामहेश्वरी, अतः शब्दार्थयोः सम्यक्तरेण ज्ञानार्थ तौ स्तुव इति भावः॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 149