Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 10
________________ रघुवंशमहाकाव्यम् । [प्रथम:आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥५॥ सञ्जी-स इति । सोऽहं 'रघूणामन्वयं वक्ष्ये' इत्युत्तरेण सम्बन्धः । किं विधानां रघूणामित्यत्रोत्तराणि विशेषणानि योज्यानि । आजन्मनः। जन्मारभ्येत्यर्थः । 'आङ् मर्यादाभिविध्योः' इत्यव्ययीभावः। शुद्धानाम् । सुप्सुपेति समासः । एवमुत्तरत्रापि द्रष्टव्यम्। आजन्मशुद्धानाम् । निषेकादिसर्वसंस्कारसम्पन्नानामित्यर्थः । आफलोदयमाफलसिद्धेः कर्म येपां ते तथोक्तास्तेषाम् । प्रारब्धान्तमिनामित्यर्थः । आसमुद्र क्षितेरीशानाम् । सार्वभौमाणमित्यर्थः। आनाकं रथवर्त्म येषां तेषाम् । इन्द्रसहचारिणामित्यर्थः। अत्र सर्वत्राङोऽभिविध्यर्थत्वं द्रष्टव्यम् । अन्यथा मर्यादाs र्थत्वे जन्मादिषु शुद्धयभावप्रसङ्गात् । ____अ०-सः, अहम्, आजन्मशुद्धानाम् आफलोदयकर्मणाम्, आसमुद्रक्षितीशानाम, आनाकरथवर्मनां, 'रधूणाम्, अन्वयं, वक्ष्ये' इत्युत्तरेण सम्बन्धः (१)। सुधा-सामन्दः, अहं ग्रन्थकर्ता, कालिदासकविरिति यावत् । 'रघूणामन्वयं वचये' इत्युत्तरेण सम्बन्धः । किंविधानां रघूणामित्यत्रोत्तराणि विशेषणानि योज्यानि कुलकत्वाद् । आजन्मशुद्धानां जन्मारभ्य, निषेकादिनिखिलसंस्कारसंस्कृतानाम्, आफलोदमकर्मणाम् फलसिद्धिपर्यन्तं व्यापारवताम्, आसमुद्रक्षितीशानाम् = अधिपर्यन्तं धराधीश्वराणां चक्रवर्तिनामिति यावद्, आनाकरथवर्त्मनां स्वर्गपर्यन्तं स्यन्दनसञ्चरणवताम् ।। स०-जन्मनः आ आरभ्येत्याजन्म आजन्मना शुद्धाआजन्मशुद्धास्तेषामाजन्मशुद्धानाम् फलस्योदय इति फलोदयः फलोदयमभिच्याप्येत्याफलोदयम् आफलोदयं कर्म येषान्ते आफलोदयकर्माणस्तेषामाफलोदयकर्मणाम् । क्षितेरीशाः क्षितीशाः समुद्रमभिव्याप्येत्यासमुद्रम् आसमुद्र क्षितीशाः, आसमुद्रक्षितीशास्तेषामासमुद्रक्षितीशानाम् । रथस्य वर्म रथवर्मन अकं दुःखं विद्यते यत्र स नाकः नाकमभिव्याप्य आनाकर आनाकं रथवर्म येषान्ते आनाकरथवानस्तेषाम् आनाकरथवर्मनाम् ॥ ___ को-'धरा धरित्री धरणिः क्षोणिा काश्यपी क्षितिः' इत्यमरः । 'स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः इत्यमरः। 'याने चक्रिणि युद्धार्थं शताङ्गः स्यन्दनी रथः' इत्यमरः । 'अयनं वर्ममार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः।। ता०--सोऽहं निषेकादिसंस्कारशुद्धानां प्रारब्धान्तर्गामिनां सार्वभौमाणां सदेहस्वर्गगामिनां 'रघूणामन्वयं वक्ष्ये' इत्युत्तरत्रापि योज्यम् ।। इन्दुः-वह 'मन्दबुद्धि' में 'कालिदास' जन्म से निषेकादिसंस्कारों से शुद्ध, फल की सिद्धिपर्यन्त कर्म करनेवाले, समुद्रपर्यन्त पृथ्वी का शासन करनेवाले स्वर्ग तक रथ के मार्गवाले 'रघु के वंश को कहता हूँ' यह आगे के तीन श्लोकों में (१) इत्यत आरभ्य चतुर्पु श्लोकेपु योग्यताविरहाद् वाच्यान्तरं न ज्ञातव्यम्, किन्वतः पञ्चमे ('रघूणामन्वयमिति) श्लोके द्रष्टव्यम् ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 149