Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 5
________________ रघुवंशमहाकाव्यम् सञ्जीविनी-सुधा-इन्दु-टीकोपेतम् प्रथमः सर्गः मातापितृभ्यां जगतो नमो वामार्धजानये । सद्यो दक्षिणहक्पातसङ्कुचद्वामदृष्टये ॥१॥ अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।। तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥२॥३(' शरणं करवाणि शर्मदं ते चरणं वाणि ! चराचरोपजीव्यम् । करुणामसृणैः कटाक्षपातैः कुरु मामम्ब ! कृतार्थसार्थवाहमु ॥३॥ -n. वाणी काणभुजीमजीगणदवाशासीच्च वैयासिकी. min,' मन्तस्तन्त्रमरंस्त पन्नगगवीगुम्फेषु वाजागरीत् । aja) वाचामाकलयद्रहस्यमखिलं यश्चाक्षपादस्फुरां- लोकेऽभूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः ॥४॥ मल्लिनाथकविः सोऽयं मन्दारमानुजिघृक्षया। व्याचष्टे कालिदासीयं काव्यत्रयमनाकुलम् ॥५॥ कालिदासगिरां सारं कालिदासः सरस्वती। चतुर्मुखोऽथवा साक्षाद्विदुर्नान्ये तु. मादृशाः ॥ ६ ॥ तथापि दक्षिणावर्तनाथाद्यैः तुण्णवर्मसु । वयं च कालिदासोक्तिववकाशं लभेमहि ॥७॥ भारती कालिदासस्य दुर्व्याख्याविषमूर्छिता। एषा सञ्जीविनी टीका तामद्योजीवयिष्यति ॥८॥ इहान्वयमुखेनैव सर्व व्याख्यायते मया। नामूलं लिख्यते किञ्चिन्नानपेदितमुच्यते ॥९॥ इह खलु सकलकविशिरोमणिः कालिदासः। (काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरचतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे) इत्यायालङ्कारिकवचनप्रामाण्यात्काव्यस्यानेकश्रेयःसाधनता, (काव्यालापांश्च वर्जयेद्) इत्यस्य निषेध शास्त्रस्यासत्काव्यविषयतां च पश्यन् रघुवंशाख्यं महाकाव्यं चिकीर्षुः, चिकीर्षितार्थाविनपरिसमाप्तिसंप्रदायाविच्छेदलक्षणफलसाधनभूतविशिष्टदेवतानमस्कारस्य शिष्टा

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 149