SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् | भी लगाना चाहिये। कुलक होने से यहाँ से पाँचवें श्लोक में से इस अर्थ का आक्षेप किया जाता है ॥५॥ यथाविधिहुताग्नीनां यथाकामाचिताथिनाम | यथाऽपराधदण्डानां यथाकाल प्रबोधिनाम ॥६॥ सञ्जी०-यथेति । विधिमनतिक्रम्य यथाविधि । 'यथाऽसादृश्ये' इत्यव्ययीभावः । तथा हुतशब्देन सुप्सुपेति समासः। एवं 'यथाकामार्चित-इत्यादीनामपि द्रष्टव्यम् यथाविधि हुता अग्नयो यैस्तेषाम् । यथाकाममभिलाषमनतिक्रम्यार्चितार्थिनाम् । यथाऽपराधमपराधमनतिक्रम्य दण्डो येषां तेषाम् । यथाकालं कालमनतिक्रम्य प्रबोधिनां प्रबोधनशीलानाम् । चतभिर्विशेषणैर्देवतायजनार्थिसत्कारदण्डधरत्वप्रजापालनसमयजागरूकत्वादीनि विवक्षितानि । ___ अ०-यथाविधिहुतानीनां, यथाकामार्चितार्थिनां, यथाऽपराधदण्डानां, यथाकालप्रबोधिनाम् । सुधा-यथाविधिहुताग्नीनां विधिमनतिक्रम्य, शास्त्ररीत्येति यावत्, तर्पितपावकानां यथाकामार्चितार्थिनां अभिलाषमनतिक्रम्य पूजितयाचकानां, यथाऽपराधदण्डानाम् = अपराधमनतिक्रम्य 'अपराधानुसारेण' इति यावद्, दण्डप्रदानां, यथाकालप्रबोधिनां= कालमनतिक्रम्य 'उचितसमये' इति यावद्, जागरूकाणां, 'दत्तावधानानाम्' इति यावत् । स०-विधिमनतिक्रम्येति यथाविधि यथाविधि हुताः, यथाविधिहुताः यथा विधिहता अग्नयो यैस्ते यथाविधिहुताग्नयस्तेषां यथाविधिहुताग्नीनाम् । काममनतिक्रम्य यथाकामम् यथाकामम् अर्चिता यथाकामार्चिताः यथाकामार्चिता अर्थिनोयैस्ते यथाकामार्चितार्थिनस्तेषां यथाकासार्चितार्थिनाम् । अपराधमनतिक्रम्ययथाऽपराधं यथाऽपराधं दण्डो येषान्ते यथाऽपराधदण्डास्तेषां यथाऽपराधदण्डानाम्, यथाकालं प्रबोधिनो यथाकालप्रबोधिनस्तेषां यथाकालप्रवोधिनाम् । को-'विधिविधाने देवेऽपि' इत्यमरः। 'कामं प्रकामं प्रर्याप्त निकामेष्टं यथेप्सितम्' इति । 'इच्छामनोभवौ कामौ' इति चामरः। 'स्यादर्हिते नमस्थितनमसितमपचायितार्चितापचितम्' इत्यमरः। 'वनीयको याचनको मार्गणो याचकार्थिनौ' इत्यमरः । 'आगोऽपराधो मन्तुश्च' इत्यमरः। 'कालो दिष्टोऽप्यनेहाऽपि समयोऽपि' इत्यमरः। ता०-शास्त्ररीत्या यज्ञकर्तृणाम् अतिथिसत्कारपरायणानां दुष्टनिग्रहकराणां प्रजापालनसमये जागरूकाणाम् । इन्दुः-विधिपूर्वक अग्नि में आहुति देनेवाले, इच्छानुसार याचकों का सम्मान करनेवाले, अपराध के अनुसार दण्ड देनेवाले, उचित समय पर सावधान रहनेवाले ॥६॥
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy