Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi,
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
पुण्डरीक - 8 इत्यनेकविधविश्वविरागं चिन्तयन् मनसि तत्र दिनेऽसौ ।
॥२६४॥
४
१२
पूजनादि च जिनस्य विधाय सौख्यतो निशि नृपः स्वपिति स्म ॥ १२२॥ कोमले नरपतिः शयनीये सोऽनुभूय शयनोद्भवसौख्यम् ।
उत्थितो रजनितुर्यविभागे चिन्तितैरजनि संयुत एवम् ॥ १२३ ॥ ( अपुत्रो राजा गजमेव राज्येऽभिषिञ्चति -- ) नैव देववशतोऽस्ति सुतो मे मां च मज्जयति वार्धकवार्धिः । गोत्रिणोऽप्यजयिनो निखिलास्ते राज्यमर्हति न जन्तुरनहैः ॥ १२४॥
यतः - भूपतावसुकृताश्रितचित्ते मन्त्रितामनयिनि श्रुतहीने । यस्तपस्विगुरुतामनृताचे स्थापयेत् स लभते तुलदुःखम् ॥ १२५ ॥
यद्गुणो भवति राज्यधरोऽयं तद्गुणं विमलराज्यमपि स्यात् । यत्र तु स्फुटभिः स्फटिकः स्यात् तन्निभः किमु विभां न विभर्ति ॥ १२६ ॥ धर्मनिर्मलविभं नररत्नं रत्नसूकुलवधूमुकुटेऽस्मिन् ।
स्वे पदे ममय विधाय सत्कलाद इति कीर्तियुतः स्याम् ॥ १२७ ॥
आः स तिष्ठति गजोऽङ्गजवद् मे राज्यमेतदथ तत्र निधाय ।
स्वं भवं विमलयामि तमग्यं दीक्षया विमलयाऽमित पुण्यात् ॥१२८॥ चेतसीति सरसे स रसेशो निश्चिकाय शुचिकाय-मनस्कः ।
१ रत्नसू. - पृथ्वी २ रसाया- भूमेः ईशः ।
Jain Educationemational
For Private & Personal Use Only
चरित्रम्
सगः-७
॥२६४॥
www.pelibrary.org

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346