Book Title: Pundrik Charitram
Author(s): Kamalprabhsuri, Bechardas Doshi, 
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 339
________________ पुण्डरीक-8 रस- रुधिर- सुमेदो-नांस-मजा-स्थि- वर्चोऽशुचिचयनिचिताग्यो विश्रवच्छोत्रवित्राः । विषयविषविमोहात् क्रीडयन् नार्य आर्य ! क्व पतसि नरकान्धावन्धचित्ते त्वमात्मन् ! || ५२॥ इति भरतनरेन्द्रो निर्मितात्मप्रबोधः स्मृतजिनपवचोभिस्त्यक्त संमोहरोधः । ॥३०७॥ ४ 100000 १२ क्षपकविमलभावः श्रेणिमार्गे स्ववेगात् सकलदुरितसार्थं घातकं मुञ्चति स्म ॥५३॥ ( भरतस्य केवलज्ञानम् - ) प्रथम जिनवचोभिः संस्मृतैज्ञनिवन्तं स्थिरशिवपथि सम्यग्भावतो दर्शनाढ्यम् । अवगतमुनिकृत्यैः सचरित्रेण युक्तं नृपमभजदियं द्राक् केवलज्ञानलक्ष्मीः ॥५४॥ अथ धरणिधरेऽस्मिन् केवलज्ञानभासा समुदयमुदयन्तं वीक्ष्य तस्मिन् मुहूर्ते । समुदयममरेन्द्रोऽभ्यागमत् कः सुधम स्थित इह मुदितोऽन्तः स्यान्न साधर्मिकः १ ॥५५॥ त्रिजगदधिपवन्ध ! ज्ञानभानूदयावे ! जय जय वच उच्चैः प्रोच्चरन् देवराजः । अमरपरिवृतोऽसावेत्य संयोज्य पाणी भरतवसुमतीशं नीतिविज्ञो जगाद ॥ ५६ ॥ प्रकटितपरमौजा भावचारित्रतस्ते समजनि परमात्मा मोक्षसौख्यैकभूभिः । अपि वपुषि भज त्वं शुद्ध चारित्रवेषं सविधमन (नु) योग्यो व्याहृतोऽर्हद्भिरेषः ॥५७॥ यतः- प्रथम जिनविभावादेष चारित्रराजः किल भुवि विलसंस्त्वां तत्तनूजं निरीक्ष्य । मदन-मद- विमोहाद्यैर्निबद्धं विमुक्तं स्वसखि - भवविरागं प्राहिणोत् त्वत्समीपे ॥ ५८॥ अथ स भवविरागो भूषणैमौहबन्धैरिव पिहितशरीरे त्यक्तभूषां कनिष्ठाम् । श्रित इह तव दृष्टिद्वारतोऽन्तः प्रविश्य दृढ नृपमिव मोहं भावखड्गैर्जघान ॥५९॥ Jain Educationtemational For Private & Personal Use Only xxxxxxxx श्रम् ॥३०७॥ ainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346